________________
मल्लिनाथमहाकाव्ये
अथो विहस्य भूपालोsप्यूचे किञ्चिद् विमोहवान् । अर्हन् ! परेद्यविश्वौरो विधृतो विहितागसः ॥ ३१ ॥ जीवनेव तुलारूढो पौराध्यक्षं प्रतोलितः । उच्छ्वासस्य निरोधेन मारयित्वा तथैव सः ॥ ३२ ॥ तोलितस्तत्क्षणं यावांस्तावानेव जिनेश्वरः । तस्माद्देहात् कथं प्राणी व्यतिरिक्तो विचिन्त्यताम् १३३ प्रभुरूचेऽथ केनाऽपि गोपालेन दृतिर्दृढम् । तोलितो वातसम्पूर्णो रिक्तोऽपि हि तथा तथा ॥ ३४ ॥ तस्मात् सर्वाङ्गसंस्पर्शे कथञ्चिद् देहतः पृथक् । स्वसंवेदनसंसिद्धो जीवः प्रत्यक्ष एव हि ||३५| तथाहि
२९४
चैतन्यानुगतानेकचलनस्पन्दनादिभिः । चेष्टाभिर्लक्ष्यते जीवो वातवद् ध्वजकम्पनात् ॥ ३६॥ यदूचे— लोकाकाशसमप्रदेश निचयः कर्तेपभोक्ता स्वयंसङ्कोच विकाशधर्म्मसदनं कायममाणस्तथा । चैतन्यान्वितवीर्यलब्धिकलितो भोगोपभोगैर्युतोभेदच्छेदवियुक्त सर्वगतिको जीवोऽत्र संसारगः॥ ३७॥ राजाऽऽह भगवन्नद्य सद्यो मोहः पलायितः । स्फुरिते चेतसि स्फीतमास्तिकत्वं यथोदितम् || ३८॥ परं कुलमायातं नास्तिकत्वं सदा धृतम् । विमोक्तुं तत् कथं शक्तो भवेदात्मनि हीनता ॥ ३९ ॥ प्रभुः प्राह महाभाग ! स्तोकमेतद् विवेकिनाम् । किञ्च व्याधिः क्रमायातो दारिद्र्यं नात्र मुच्यते ? ॥ ४० ॥ यथेह वणिजः केऽपि नानावाहनशालिनः । गता वाणिज्यकार्येण लोहकारं व्यलोकयन् ॥४१॥ ततो लोहं गृहीत्वा ते गच्छन्तः पुनरग्रतः ।