________________
२८२
मल्लिनाथमहाकाव्येयद्वदेषाऽभवत् तद्वदेषाऽपि भविता क्षणात् ॥१०३८॥ एवं विचिन्त्य साम्नैनां भाषमाणः पुरो नयन् । राजवर्त्मनि विक्रेतुं दधौ, मूर्ध्नि तृणं ददौ ॥१०३९॥ क सान्तःपुरभूः क्रीडा केयं विक्रयभूमिका ? । क मूर्ध्नि मुकुटश्रीश्च क चैतत् तृणमोचनम् ? ॥१०४०॥ अथवा प्राक्कृतानां हि कर्मणां फलमीदृशम् । परो निमित्तमात्रं स्याद्, कस्मै कुप्याम्यहं ततः ॥१०४१॥ एवं खेदपरां राजपुत्रीमालोक्य भास्करः। पश्चिमामगमत् , सन्तः परदुःखेन दुःखिताः ॥१०४२॥ नभोलक्ष्मीरिमां वीक्ष्य स्थितां विक्रयवमनि । तिमिरच्छमना दधे कजलाश्रुजलश्रियम् ॥१०४३।। श्रेष्ठी धनावहस्तत्राऽऽगतो दासजिघृक्षया । एनां श्रियमिवालोक्य दधाराऽऽनन्दसंपदम् ॥१०४४॥ असौ कन्या न सामान्याऽगाद् दैवादीदृशी दशाम् । संपदो विपदश्वाप्यरघट्टघटिका यतः ॥१०४५।। इमां क्रयक्षितौ क्षिप्तां वीक्षमाणाङ्गजामिव । हृदयं भविता द्वेधा वालुकमिव पक्तिमम् ॥१०४६॥ यस्य कस्यापि हीनस्य करे यास्यति रत्नवत् । यतश्चतुष्पथे तेन विक्रेतुं विधृता ध्रुवम् ॥१०४७॥ तिष्ठन्त्या मद्गृहस्यान्तः स्यादस्या बन्धुसंगमः। मूलद्रव्यं यतो नव्यं सतामुपकृतिर्मता ॥१०४८॥ धनावहो विचिन्त्येति तस्मै दत्त्वप्सितं धनम् । निन्ये वसुमती बाला स्ववेश्म विगतस्मयः ॥१०४९॥ पृष्टाऽथ श्रेष्ठिना वत्से ! का त्वं कस्याऽसि नन्दिनी ? । किं गोत्रं किमु ते नाम का नाम जननी तव ? ॥१०५०॥ महत्त्वेन कुलस्योच्चैः स्वकुलं वक्तुमक्षमा । १ चिर्भिटमिवेत्याशयः।