________________
सप्तमः सर्गः।
२८३ सा तस्थौ न्यग्मुखी बाला रजन्यामिव पद्मिनी ॥१०५१।। उवाच श्रेष्ठिनी मूलामावयोर्दुहिताऽसकौ । लालनीया पालनीया नेत्रकैरवकौमुदी ॥१०५२॥ तया श्रेष्ठिगिराऽवात्सीत् वत्सा वसुमती सुखम् । जङ्गमा कल्पवल्लीव नानाभरणभूषिता ॥१०५३।। प्रज्ञाविनयवाक्शीलैनिःशेषैश्चन्दनोपमैः । चन्दनेत्यभिधां चक्रे सत्यामस्या धनावहः ॥१०५४।। आबाल्यविमलैर्वृत्तैर्वाला तारुण्यशालिनी । द्वितीयेन्दुवदानन्दं विदधे, पिदधे तमः ॥१०५५।। खभावेन स्वरूपेयं विशेषाद् यौवनश्रिया ।। अश्विनीपूर्णमासीवाऽशुभदिन्द्रमहेन सा ॥१०५६॥ वीक्ष्येमां यौवनोद्यानवशां गजवशामिव । विदध्यौ श्रेष्ठिनी मूला चिन्तयन्त्याऽऽयतिं हृदि ॥१०५७॥ श्रेष्ठी संभाषते नित्यं यद्यप्येनां सुतामपि । चेद् दैवादुपयच्छेत जीवन्त्यपि मृताऽस्म्यहम् ॥१०५८॥ अथवान सा विद्या न तद् ज्ञानं न तद् ध्यानं न सा कला । निवर्येत मनो येन स्मरापस्मारघस्मरम् ॥१०५९॥ यदूचेबलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति । विश्वामित्रोऽपि सोत्कण्ठं कण्ठं जग्राह मेनकाम् ॥१०६०॥ पायोनिः निजां पुत्रीं न प्रियां कृतवान् किमु ? । तावत् शूरो भवेत् सर्वो यावद् न स्त्रीकटाक्षितः ॥१०६१॥ परं रामा सुलम्भेन तुच्छत्वेन मुहुर्मुहुः । कालं निनाय ताम्यन्ती शाकिनीव दुराशया ॥१०६२॥ इतश्च प्रासरद् ग्रीष्मो भ्राष्ट्रमिन्धनविद्युतिः। १ पद्मजन्मेत्यपि । .