________________
मः सर्गः
२८१
यो यद् वस्तु समादत्ते तत् तस्येत्याऽऽदिशद् नृपः । मुमुपुः तद्भाचम्पां निर्वीरावेश्मवद् भृशम् ।। १०२६ ॥ दधिवाहनभूभर्तुर्धारिणीमङ्कहारिणीम् । श्रिया भूमीवरी देवीमिव देवीमवीतधीः || १०२७॥ वसुमत्या समं पुत्र्या राजलक्ष्म्येव मूर्तया । कोऽप्यौष्ट्रिकोऽग्रहीद् राज्य सर्वस्वमिव संचितम् || १०२८॥ ( युग्मम् )
शतानीकः परानीकैरनीकैः पर्यलङ्कृतः । कृतकृत्यः पुरीं प्राप स्वविक्रमकथासखीम् ||१०२९ ॥ मोहितस्तेन धारिण्या रूपेणाप्रतिमश्रिया । जनानां पुरतो गच्छन् जगादेति सुदुःसहम् ।। १०३० ॥ इमां रूपवतीं प्रौढां भार्या कर्त्तास्मि निश्चितम् । पुर्याश्चतुष्पथे गत्वा विक्रेतास्मि कुमारिकाम् || १०३१ ॥ श्रुत्वेति धारिणी देवी कर्णयोः कटुकं वचः । मनस्येवं दधारोच्चैः सिञ्चन्त्यश्रुजलैर्महीम् || १०३२ ॥ महाकुले प्रसूताऽहमिन्दोरपि सुनिर्मले । दधिवाहनराजस्य पदेव्यस्मि विश्रुता ।। १०३३ ॥ विज्ञाततीर्थकृद्धर्म्मा शीलालङ्कारशालिनी । उल्लापानीदृशान् दैवाद् विशृणोम्यधकारकान् ॥१०३४ ॥ नाद्यापि किमु रे ! जीव ! मत्तेभश्रुतिचञ्चलम् | देहं त्यक्त्वा यशोदेहं न रक्षसि सनातनम् ||१०३५॥ वपुषोऽस्मात् स्वयं गच्छ बिलतो मूषको यथा । द्विजिह्वस्य प्रवेशे स्याच्छुभंयो ! न शुभं तव || १०३६॥ सोक्ता तद्भर्त्सनोद्युक्तैरिव प्राणैर्विमुच्यते । अङ्गुलीदर्शनाद् शोषं याति कूष्माण्डकं यतः ॥ १०३७॥ नृपपत्नीं समालोक्य विपन्नां करभासनः ।
१ निर्वरा - इत्यपि । २ शुभयुक्त ! इत्यर्थः ।
३६