________________
२८०
मल्लिनाथमहाकाव्येते चामीमहर्षिः कोऽपि कुन्तेन प्रोतैः संख्यातमण्डकैः । सादिना दीयमानैश्च विधत्ते पारणाविधिम् ॥ १०१४ ॥ कश्चिद् बालादिहस्तेन प्राशुकं चणकादिकम् । गृह्णाति पारणाकालेऽभिग्रहा विविधाः किल ॥१०१५।। आलानस्तम्धमुन्मूल्य पदृहस्ती मदान्धलः । गत्वा कान्दविकाट्टानि करेणाऽऽदाय मण्डकान् ॥१०१६।। मह्यं ददाति चेत् काले तदा स्यात् पारणाविधिः । इत्याद्यभिग्रहा राजन् ! पूर्यन्ते देवतावशात् ॥१०१७॥
(युग्मम् ) विशिष्टज्ञानमाहात्म्यं विनाऽस्याऽभिग्रहः कथम् । मादृशैर्गदितुं शक्यः, सर्व हि महतां महत् ? ॥१०१८।। ईदृशोऽभिग्रहान् राजा पुर्यामाघोष्य डिण्डिमात् । बहुधाऽध्यापकेनोक्तान् कारयामास कार्यवित् ॥१०१९।। केचित् नृपाज्ञया चक्रुः केचिद् भक्त्या जिनं प्रति । रत्नवृष्टीच्छया केचित् केचित् कीर्तिजिघृक्षया ॥१०२०॥ केचित् कुल्याशया स्पष्टं व्यधुरेवंविधं जनाः । तथापि तीर्थकृद् भिक्षां न जग्राह कथञ्चन ॥१०२१॥ प्रम्लानवदनच्छाया रजनीनीरजोपमाः। ब्रीडां खेदाकुलाः पौरा विदधुर्मुखिता इव ॥१०२२॥ इतश्वअस्त्रैश्चतुर्विधैः शान्तैः कङ्कटैगजवाजिभिः। पूरयित्वा गणं नावां पूर्ववैरेण दूरतः ॥१०२३॥ नद्याः पथा शतानीको विक्रमादेकया निशा । एत्याऽरुषत् पुरी चम्पां तित्तिरीमिव पाशकः ॥१०२४॥ ज्ञात्वा तदागमं झम्पापातवद् भयविद्रुतः । चम्पाधिपः पलायिष्ट दस्युवद् दधिवाहनः ॥१०२५।।