________________
सप्तमः सर्गः।
२७९ तस्याः हृदयवासिन्याः संक्रान्तं हृदयादिव ॥१०००। उच्चकैः खेदसंच्छन्ना मन्दध्वाना मृगावती । व्याजहार नृपस्याग्रे दीनं दीनं महासती ॥ १००१ ॥ चराचरं चरैर्विश्वं जानते जगतीभुजः। स्वपुरीमपि नैव त्वमहो ! ते मतिकौशलम् ॥ १००२ ॥ त्रैलोक्याधिपतिं वीरं वसन्तं नात्र वेत्सि किम् ?। अथवा राज्यलुब्धा हि गुरुपूजाप्रमद्वराः ॥ १००३ ॥ राजा बभाषे धिग धिग् मां यदसौ परमेश्वरः ।। अलक्ष्याभिग्रहोऽप्युच्चैः संपूर्णाभिग्रहो न यत् ॥ १००४ ॥ साधु साधु प्रिये ! वीराभिग्रहं प्रेरितः प्रति । मन्त्री मन्त्रं गुरुस्त्वं मे यदस्येवं प्रमादहृत् ॥ १००५ ॥ प्रभाते प्रेयसि! ज्ञात्वाऽभिग्रहं चरमेशितुः। पारणां कारयिष्यामि शरीरग्लानिहारिणीम् ॥१००६।। राजा सचिवमाहूय वीरवृत्तं यथातथम् । सविस्तरमुवाचाऽर्हद्भक्तिकञ्चुकचञ्चुरः ॥ १००७ ॥ धिर धिग् नश्चतुरो मासान् वसंस्तपसि तत्परः । प्रभु! वन्दितो नैव ज्ञातोऽपि ज्ञातनन्दनः ॥ १००८ ॥ विज्ञेयोऽभिग्रहो भर्तुः कथंचिदपि धीधन ! । पारणं कारणीयश्च नान्यथा श्राद्धताऽपि का? ॥१००९।। सचिवोऽप्यब्रवीद् देव ! बहवोऽभिग्रहाः श्रुताः । तथ्यवाद्यभिधो वक्तोपाध्यायः सर्वशास्त्रवित् ॥ १०१० ॥ भूपोऽप्यथ समाहूयाऽध्यापकं तथ्यवादिनम् । . वीरस्याभिग्रहं चारु विचारय यथामति ॥ १०११ ॥ अर्थ्यन्ते सर्वधर्माणामाचारास्तव शासने । तन्मध्यात् केनचिद् भर्ती विधाता पारणाविधिम्॥१०१२॥ अध्यापकोऽप्यभाषिष्ट भूयांसोऽभिग्रहाः खलु । द्रव्यक्षेत्रकालभावभेदात् संयमिनां मताः ॥ १०१३ ॥