SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ सप्तमः सर्गः। २७५ अथोवाच भवान् साधो ! कस्माद् भ्राम्यनिहाऽऽगतः । सोऽप्याख्यनिजकाद् गच्छाद् भ्रष्टोऽहं दिवसात्यये॥९५०॥ नाऽहं किश्चिद् कचिद् वेनि दिग्मूढ इव साम्प्रतम् । दर्शयतु भवान् मार्ग श्रेयस्ते भावि भाविकः ॥९५१॥ अथैष स्वगृहे नीत्वा स्थापयित्वा वराश्रये । वस्त्रानपानशय्याभिर्भवद्भ्यां प्रतिलाभितः ॥९५२॥ शृण्वतोराहतं धर्म दम्पत्योर्वासनाऽभवत् । अशिक्षेतां भवन्तौ चाऽऽवश्यकादिविधि पुनः ॥९५३॥ चतुष्पा ग्रहीष्यामि पौषधं पातकौषधम् । एवं निश्चयमाधत्त भवान् भवविरागधीः ॥९५४॥ अन्येयुः शिखरसेनोऽमावास्यां शुद्धवासनः। अगृह्णात् पौषधं तद्वत् श्रीमत्यपि शुभाशया ॥९५५॥ पुच्छेनाऽऽच्छोटयन् पृथ्वी नादैमुखरयन् दिशः । कोपानेरर्चिषा रज्यल्लोचनद्वयदीपिकः ॥९५६॥ मूर्तों रौद्रो रसः प्रेताधिपतेः प्रतिहस्तकः। इतश्चाऽगाद् निशीथिन्यां पारीन्द्रः पौषधालये ॥९५७।। (युग्मम् ) तं दृष्ट्रा धन्य धन्वेति भाषमाणं मुहुर्मुहुः । भवन्तं वीक्ष्य त्वत्पनी प्रोचे वाचं मिताक्षरम् ॥९५८॥ नाथ ! सन्यस्तशस्त्रस्य पौषधव्रतशालिनः । जन्तोर्यातं न दातुं ते युज्यते जैनसाधुवत् ।। ९६९ ॥ सहस्त्रोपसर्गममुं कर्मेन्धनहुताशनम् । येन ते शिवशर्माणि भावीनि करगोचरे ॥ ९६० ॥ श्रुत्वैवं वचनं चारुगुरुवाक्यमिवापरम् । भवान् शान्तिवरागारे स्थितः साम्यमहाधनः ॥९६१॥ १ प्रतिलाभ्यते, इत्यपि। २ अमावासीशब्दस्य सप्तम्यन्तमेतत् । ३-मानसः, एवमपि ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy