________________
२७६
मल्लिनाथमहाकाव्ये
ततः सिंहेन दुःसह्यं भवान् शिरसि ताडितः । अनित्यतादिभावज्ञ इत्याशु ध्यानवान् भवान् ॥९६२॥ रे! जीव ! किमिदं कष्टं यत्सोढा नरकोदरे । तदिदं वर्णिकामात्रं दयते तेन साम्प्रतम् ॥९६३॥ रे! जीव ! शतशः प्राणत्यागस्तेऽजनि संसृतौ । पाण्डित्यमरणं नैव प्राप्तं कर्मद्रुपाक्कम् ।।९६४॥ स्मरन्निति भवान् मृत्वा भूत्वा नाकी च लान्तके । त्वमभूः पृथिवीपालस्तद्वदेषाऽपि ते प्रिया ॥९६५।। तत्पूर्वं पशवो भद्र ! निरागसो वियोजिताः। तद्विपाकं विरहेण सहसे दुःसहं चिरम् ॥ ९६६ ॥ श्रुत्वेति तीर्थकृत्प्रोक्तं लघुका महीपतिः । राज्ये पुरन्दरपुत्रं न्यस्याऽभूत् श्रमणोत्तमः ॥९६७॥ ततस्तीर्थकरोपान्ते तपस्तप्त्वा सुदुष्करम् । अन्तकृत्केवलीभूय राजर्षिः प्राप निवृतिम् ॥ ९६८ ॥ तेन विद्याभृता नीता तत्र सा वल्लभेशितुः । श्रुत्वा तीर्थकरप्रोक्तं प्रव्रज्याऽथ शिवं ययौ ॥९६९।। अथ नत्वाऽवदत् कुम्भपृथ्वीशः प्राज्यविक्रमः । स्वामिन् ! पोषधदृष्टान्तो जातः कर्णावतंसताम् ॥९७०॥ कृतार्थः शिखरसेनः पौषत्रततत्परः। येन प्राणात्ययेऽप्युच्चैः पालितं पौषधवतम् ॥ ९७१ ॥ इदानीं श्रोतुमिच्छामि तुर्य शिक्षात्रतं प्रभो । श्राद्धधर्मो भवेद् येन समनोऽथाह तीर्थकृत् ।। ९७२ ॥ तुर्य शिक्षाव्रतं प्राहुरतिथेः संविभागतः । प्राप्ताय साधवे काले दानात् प्राशुकवस्तुनः ॥ ९७३ ।। अतिथेः संविभागः स्यादेतव्रतनिषेवणात् । भाविनी चन्दना वीरतीर्थे निर्वाणगामिनी ॥ ९७४ ॥ १ वर्गी, इतीतरदपि ।