________________
मल्लिनाथमहाकाव्ये
प्राकारत्रितयं दृष्ट्रा भ्राजमानं जिनेशितुः । धाराकदम्बवद् धाराहतो रोमाञ्चितोऽभवत् ॥ ९३७॥ ततः प्रदक्षिणीकृत्य तीर्थनाथं क्षमापतिः । स्तुत्वा स्तोत्रैर्विचित्रैश्च यथास्थानमुपाविशत् ॥ ९३८ ॥ अनादिनिधनो जीवो बद्धः कर्मभिरुद्भटैः । दुर्वात भ्रामितः पोत इवाम्भोधौ भ्रमत्यलम् ॥९३९॥ तत्रैव भ्राम्यतो द्वीपकल्पः कल्पद्रुमोपमः । जैनो धर्मः स च द्वेधा साधुश्राद्धविभेदतः ||९४० ॥ साधुधर्मो यथा प्रोक्तो व्रतपञ्चकबन्धुरः । अदवीयानयं मार्गो लोकाग्रमुपतिष्ठते ॥ ९४९ ॥ श्राद्धधर्मात् परं मोक्षो भवति द्वित्रिजन्मतः । अयं तु सुकरो ज्ञेयः प्रायशो विषयैषिणाम् ॥ ९४२ ॥ कस्य धर्मस्य माहात्म्यादभूवं पृथिवीश्वरः । इत्युक्ते भूभुजा तेन प्रोचे वाचंयमाग्रणीः || ९४३ ॥ आसीदिहैव भरते विन्ध्यसंज्ञो महीधरः । चतुर्विधगजोत्पत्तिभूमिर्भूमितिदण्डवत् ॥ ९४४ ॥ तस्मिन् शिविरसेनोऽभूत् पल्लीशः क्षत्रियाग्रणीः । जन्तुजातवधे निष्ठो गरिष्ठः स्तेयसाहसः || ९४५ ॥ इयं ते प्रेयसी प्रेमरत्न रोहण भूमिका | समभूत् श्रीमती नाम्ना पलिश्रीरिव गेहिनी ॥९४६॥ गुञ्जामुक्ताफलाहारा वल्कलाम्बरधारिणी । बर्हिपिच्छकृतोत्तंसा प्रियङ्गुद्युतिभासुरा ॥९४७॥ त्वया सह सदुर्गाद्रिनिकुञ्जे कृतचङ्क्रमा ! पिबन्ती नैर्झरं वारि त्रासयन्ती मृगीरपि ॥ ९४८॥ यूथभ्रष्टमिव न्यङ्कं सार्थच्युतमिवाध्वगम् । एकं ददर्श सा साधुं पर्यटन्तं महागिरौ ।। ९४९ ॥ (त्रिभिर्विशेषकम् )
२७४