________________
सप्तमः सर्गः
२७३
जहेऽन्तःपुरमासीनां चन्द्रधर्मा निशामुखे ||९२३ || (युग्मम् ) अस्या अपहृतिं ज्ञात्वा निधेरिव धराधवः । मूलच्छिन्नांहिप इव पपात पृथिवीतले ।। ९२४ ॥ चन्दनद्रवनिष्यन्दितालवृन्तमहानिलैः ।
चिरं कृतप्रतीकारो मूर्च्छाविच्छेदमाप सः ।। ९२५ ।। हा ! प्रिये ! हा ! प्रिये ! राकाशशाङ्कवदनानधे ! | कुतोऽस्मान् त्वमनापृच्छय गताऽसि मृगलोचने ! ॥ ९२६ ॥ त्वां विना नगरं देवि ! शून्यमेतद् विलोक्यते । त्वदनु मस्थिताः प्राणाः शून्यमस्थात् कलेवरम् ॥९२७॥ एवं दुःखपरे राज्ञि चतुर्थे दिवसे दिवः 1 जटाजूटधरो मन्त्रसिद्धः कश्चिदुपागतः ।। ९२८ ॥ वयस्य ! मन्त्रसिद्ध्यर्थं तव कान्ता मया हृता । एप कल्पो यतोऽमुष्याऽऽराधने गुरुणोदितः ॥ ९२९ ॥ तां जामिमित्र मे विद्धि न ते पीडा भविष्यति । षण्मासान्ते त्वया साकं संगमः साधु सेत्स्यति ॥ ९३० ॥ इत्युदित्वा गते तस्मिन् पुनः मृच्छोमवाप सः । आर्द्रीभूतं च तद् दुःखं पिटको घर्षणादिव ।। ९३१ ॥ मूर्च्छान्ते प्रेयसीं स्मृत्वा ध्यानी मौनी च सोऽभवत् । पल्योपमोपमास्तस्य बभूवुर्दिवसाः कति ॥ ९३२ ॥ व्यामोहतिमिरे तस्य दूरीभूते कथञ्चन । जहृषुः सचिवाः सर्वे लब्धाऽपूर्वनिधानवत् ॥ ९३३ ॥ अत्रान्तरे समागत्योद्यानपालोऽप्यभाषत । विजयस्व महीपाल ! मङ्गलैरतुलैर्भृशम् ।। ९३४ ॥ तवोद्याने जिनखामी गजगामी समागतः । अनेकसंशयध्वान्तध्वंसकस्तिग्मभानुवत् ॥ ९३५ ॥ श्रुत्वेदं हर्षरोचिष्णुद्रग् पारितोषिकं नृपः । दत्त्वा व्यसृजदेनं तु स्वयमागाच्च वन्दितुम् ।। ९३६ ॥
३५