SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ २७२ मल्लिनाथमहाकाव्येअथ प्राणान् समादाय नेशुः सार्थजना निशि । धनसेनस्तु कुशली तत्रस्थो व्रतपालनात् ।। ९१० ॥ अवबुद्ध्य स्वरूपं तत् प्रनष्टा गतपौरुषात् । विशेषतो रतो जैने धर्मेऽभूत् सुसमाहितः ॥ ९११ ॥ अथ प्राप्य स्वकीयं तत् पुरं रत्नपुराभिधम् । समुपार्जितलक्ष्मीकः श्राद्धव्रतमपालयत् ।। ९१२ ॥ पर्यन्तेऽनशनं कृत्वा समाधिध्यानतत्परः । मृत्वाऽभूत् प्रथमे कल्पे सुरो ललितसंज्ञकः ॥ ९१३ ॥ देशावकाशिकं शुद्धं यथाऽनेन सुरक्षितम् । तथाऽन्यैरपि भूपाल ! पालनीयं विवेकिना ॥९१४ ॥ श्रीकुम्भो न्यगदद् नाथ ! धनसेनः कृतार्थधीः । यस्येदृशं मनो धर्मे सुस्थितं परमार्थतः ।। ९१५ ॥ वरं पुरं शरीरं च द्रविणं च त्यजन्त्यपि । त्यजन्त्यऽभिग्रहं नैव जीवितव्यव्ययेऽपि हि ।। ९१६ ॥ पौषधवतदृष्टान्तं स्वामिन् ! श्रोतुं समुत्सुकः । केषां तृप्यन्ति चेतांसि यौष्माकीणवचाश्रुतौ ?॥ ९१७ ॥ अथाऽभ्यधाद् जिनो मल्लिः संदेहध्वान्तभास्करः। माकन्दफलसप्रीत्या गिरा तत्त्वकिरा भृशम् ॥ ९१८ ॥ पौषं दत्ते क्रमाद् ध्यानधर्मस्य शुभदायिनः । इति निष्पत्तितः माहुस्तत्वज्ञाः पौषधव्रतम् ॥ ९१९ ॥ केचित् पौषधतनिष्ठा मृत्युदा अपि वेदनाः। सहन्तेऽन्यत्वभावेन राजन् ! शिखरसेनवत् ॥ ९२० ॥ तथाहि मिथिलापुर्या विजयी विनयी नयी । राजा विजयधर्माख्यश्चन्द्रधर्माऽस्य वल्लभा ॥ ९२१ ॥ अन्येारनवद्यागी खेलन्ती सममालिभिः। विशिष्टलक्षणाधारा स्त्रीरत्नमिति कश्चन ॥ ९२२ ॥ व्यामोह्य विद्यया लोकान् विद्यासाधनहेतवे ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy