________________
सप्तमः सर्गः ।
२६९ भ्राम्यन्ती कानने घोरे निध्याता साधुपुङ्गवैः ॥ ८७० ॥ पन्था धर्मपरेऽस्माकं दर्यतां मुनयोऽवदन् । अनया दर्शितः पन्थाः साधवः प्रोचिरेऽथ ताम् ॥ ८७१ ॥ भद्रे ! भद्रकरो धर्मः कार्यः स्वस्य हितेच्छया । साऽवदत्कीदृशो धर्मोऽकथयस्ते यथाविधि ॥ ८७२ ॥ ततः प्रभृति सा शुद्धं कुर्वाणा धर्ममार्हतम् । तत्कर्मदोषशेषांऽशात् सुताऽभूत् श्वेतवीपतेः ।। ८७३ ॥ कोशलस्वामिना साकं कृतोद्वाहेयमप्यभूत् । तद्रूपं यक्षिणी काचिद् विकृत्याऽन्तःपुरेऽगमत् ।। ८७४ ॥ तद् वृत्तं श्वेतवीनाथपुत्री ज्ञात्वाऽतिदुःखिता। प्रवर्तिनी समीपेऽगाद् नत्वाऽविक्षद् यथासनम् ॥ ८७५ ॥ ज्ञानादुक्तवती प्रवाजिकाचूर्णादि सा सती । ततोऽस्या गलितं मोहध्वान्तं बोधिरदीप्यत ॥ ८७६ ।। जातिस्मरणमुत्पेदे संवेगः प्रासरद् हृदि । कियद्भगवति ! क्लिष्टं मम कर्माऽस्ति साम्प्रतम् ॥ ८७७ ॥ ऊचे प्रवर्तिनी वत्सेऽहोरात्रमिति कर्म ते । अथाऽख्यदेषा मे प्राणनाथो ज्ञास्यति मां कथम् ? ॥८७८॥ इदानीं जातशङ्कस्ते प्रियो निशि कथश्चन । प्रतिमा तीर्थनाथस्य समीपस्थां करिष्यति ॥ ८७९ ॥ तां दृष्ट्वा यक्षिणी दूरादपयास्यति दस्युवत् । जिनार्चायाः पुरो यस्मान दुष्टाः स्थातुमीश्वराः॥ ८८० ॥ प्रवर्तिनि ! न सा पत्युस्तद् विधास्यति खण्डनम् । साऽख्यत् शुभाशये! नैव किंचित् कर्ता शुभोदयात् ।।८८१॥ ततः प्रभृति ते भर्ता कर्त्ता त्वां प्राणवल्लभाम् । सर्वथा पूर्वसंभूतः क्षिप्तः कर्मभवो यतः ॥ ८८२ ॥ प्रवर्त्तिन्यर्हतो धर्मे तत्त्वं किमपि यन्मतम् ।
१ यथातथमेषोऽपि पाठः ।