SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २७० मल्लिनाथमहाकाव्येतद् ब्रूहि करुणां कृत्वा यतस्त्वं करुणानिधिः ॥ ८८३ ॥ प्रधानं सर्वमन्त्रेषु भीतानां वज्रपञ्जरम् । साधकं मुक्तिमार्गस्य दीपकं ज्ञानसम्पदाम् ॥ ८८४ ॥ जीववत् शाश्वतं साऽथ नमस्कारं यथाविधि । अशिक्षयत्तियां राज्ञः सा सम्यक् प्रत्यपद्यत ॥ ८८५ ॥ तत्रस्थैव नमस्कारतत्परा नृपवल्लभा । सकलां गमयामास क्षणवत्क्षणदां मुदा ॥ ८८६ ॥ ततस्तस्याः पतिर्दृत्तं यक्षिण्या अवगम्य च । तमुपाश्रयमागत्य देव्या अनुनयं व्यधात् ।। ८८७ ॥ आर्यपुत्र ! न ते किश्चित् कुप्यामः, कर्मणे भृशम् । निमित्तमात्रं सर्वोऽप्यपराधगुणयोरपि ॥ ८८८ ॥ अथोवाच नृपो देवि ! कर्मणे कुंप्यसि कथम् ? । साऽऽचख्यौ मूलतो वृत्तं प्रवर्त्तिन्या निवेदितम् ।।८८९।। निशम्योचे नृपः प्राच्यकर्मणां फलमीदृशम् ।। अनुभूतमनुस्यूतमिव पत्न्या भवे भवे ॥ ८९० ॥ ततः प्रवर्तिनीं नत्वा धामाऽगात्सप्रियो नृपः। साऽपि द्वादशधा धर्म परिपाल्य दिवं ययौ ॥ ८९१ ॥ एतच्चन्द्रयशोवृत्तं श्रुत्वा पुत्र ! पवित्रधीः । नीचसंगं विमुश्चाऽऽशु चेदिच्छसि समुन्नतिम् ।। ८९२ ॥ नत्वा तातमसौ प्राह नीचसंगात् समन्ततः । निवृत्तोऽहं प्रवृत्तस्तु तवाऽध्वनि शुभाशयम् ॥ ८९३ ॥ अहं तातार्हतं धर्म श्रोतुमिच्छामि साम्प्रतम् । ततोऽसौ कथयामास श्रावकत्रतपद्धतिम् ॥ ८९४ ॥ उपादत्ताहतो धर्म सद्गुरोरिव भाविकम् । विशेषाच मनश्चक्रे व्रते देशावकाशिके ॥ ८९५ ॥ अन्येार्जनकादेशात् पण्यान्तरजिघृक्षया । १ किमु कुष्यसीत्यपि । २ स गुरोः सद्गुरोरिव, एवमपि ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy