SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २६८ मल्लिनाथमहाकाव्येअत्रास्ति धर्मधीन म पुरः प्रवाजिका बहिः । बहुश्रुता समभावा चाऽस्मिन् कर्मणि कर्मठा ॥८५७।। अथ द्वाभ्यां तत्र गत्वा पूजयित्वा धनादिभिः । पत्युर्वृत्तान्त आख्यातः सावादीन्मा विषीदतां ॥८५८॥ ब्रह्मसुन्दर्ययोवाचाऽनुगृहीता त्वयाऽम्बिके । युक्तं परोपकाराय प्रवर्त्तन्ते भवादृशाः ॥ ८५९ ॥ अथोच्चाटननामोच्चैश्चूर्ण प्रवाजिका रहः । अदाच चन्द्रयशसे दुष्टकर्मेव मूर्तिमत् ॥ ८६० ॥ तद्योगचूर्णमाहात्म्यात् शिरसि क्षेपणात् पतिः। विरक्तो मदिरावत्यां रक्तश्चन्द्रयशस्यभूत् ॥ ८६१ ॥ बद्धं क्लिष्टं तया कर्म महादुःखनिबन्धनम् । विपाको यस्य संभावी बहुसंसारकारणम् ॥ ८६२ ॥ कालक्रमेण सा मृत्वा समभूत्पर्वते वशा । अप्रिया यूथनाथस्य तत्तत्कर्मविपाकतः ॥ ८६३ ॥ यत्र सा क्रीडति प्रीत्या तत्र एष न गच्छति । तां विलोक्य प्रजज्वाल नवेनेव दवेन सः ॥८६४॥ अथ मृत्वा मिरौ तत्र वानरीत्वेन साऽभवत् । अनिष्टा पूर्ववत् पत्युः स्वदुष्कृतवशंवदा ।। ८६५ ॥ अन्येाथनाथेन ताडिता सा बलीमुखी । भ्राम्यन्ती शून्यहृत पुंसा केनचिद् विधृता हठात् ।।८६६॥ अथायःशृङ्खलाबद्धा महादुःखपपीडिता । मृत्वाऽभूत् कुक्कुटीत्वेन कुत्रचित् कोलिकौकसि ॥ ८६७ ॥ तथापि कुर्कुटस्याभूदनिष्टा पूर्वजन्मवत् । मृत्वा बिडालिकात्वेन जाता तत्रापि पूर्ववत् ॥ ८६८ ॥ अथ मृत्वाऽभवत् पत्नी चाण्डालस्य सदाधियुक् । दुर्गन्धा दुर्भगा क्रूरा वामना पामनाऽपि च ॥ ८६९ ॥ ताडयित्वा श्वपाकेन गृहाद् निष्कासिता सती ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy