________________
सप्तमः सर्गः।
२६७
मूलं परापवादद्रोः कलिः, स्कन्धश्च दुर्वचः। धर्मभ्रंशः प्रमूनानि फलं दुर्गतिसंगतिः ॥ ८४४ ॥ नीचसंगाच्चिरं पुत्र ! सुदीर्घा भवसंततिः । शृणु चन्द्रयशोवृत्तं वृत्तं नवभवावधि ॥८४५॥ तथाहि भरतक्षेत्रे पुरं ब्रह्मपुराभिधम् ।। ब्रह्मसेनो नृपस्तत्र जयसेनो जिघांसुभिः ॥८४६।। निःशेषशास्त्रविदुरो विदुरोऽस्य पुरोहितः। पुरन्दरयशास्तस्य भार्या शीलधुरन्धरा ॥८४७।। तयोश्चन्द्रयशाः पुत्री वल्लभा निजजीववत् । पैतृके साऽर्हतो धर्मे नाकार्षीद् वासनां कचित् ॥८४८॥ कलिकाननकन्दल्या पैशून्याऽशून्यचित्तया । यशोदेववणिकपल्या ब्रह्मसुन्दरीसंज्ञया ॥८४९॥ गृद्धया कामभोगेषु सदाचारपथद्विषा । तस्या अजायत प्रीतिः सख्यं तुल्ये स्मृतं यतः ॥८५०॥
(युग्मम् ) वत्सेऽनया समं सख्यं न श्रेयांसि समाश्रयेत् । न तथोद्योतकृद् रत्नं सर्पमूर्ध्नि यथा भिये ।।८५१॥ इत्थं सा प्रतिषिद्धाऽपि पितृभ्यां न निवर्त्तते । यद् यन्निवारितं प्रायः तत्तदाऽऽसेवते जनः ॥ ८५२ ॥ अन्येचुरुन्मनाश्चन्द्रयशाः सख्याऽनयोदिता। मूर्खचित्तमिवात्यन्तं किमु शून्येव लक्षसे ? ॥८५३॥ सखि ! प्रियो विरक्तो मे रक्तो मदिरयेव सः। प्रकामं मदिरावत्या न मां दृष्ट्वापि वीक्षते ॥८५४॥ अजातनन्दना कालं निर्गमिष्यामि किं सखि !? । न पुत्रो न पतिश्चापि केवलं जन्म हार्यते ॥८५५॥ अलं सखि ! विषादेनाऽऽकर्णयौपयिकं वचः। नीलीरागनिभं रागं यथा कुर्यात् त्वयि प्रियः ॥८५६॥