________________
२६६
मल्लिनाथमहाकाव्ये -
गते द्वितीये यामेऽथ प्रदीपेऽत्र गृहस्थिते । अक्षिपद् जाग्रती तैलं सा शय्यापालिका पुनः ८३१ ततोऽप्यचिन्तयद् राजा रणादौ कष्टमुत्कटम् । सोढं मया कियचेदं परम्परसुखप्रदम् १ || ८३२ ॥ व्यतीते रजनीयामे तृतीये तल्पपालिका | चिक्षेप मल्लिकायां तु तैलं सा भक्तमानिनी ॥ ८३२ ॥ पुनर्दध्यौ महीपालः क्षालयिष्याम्यहं निजम् । पापं तापविनिर्मुक्तः शरीरे स्ववशे सति || ८३४ || सर्वोऽपि सहते कष्टं प्रायः परवशः पुमान् । कर्मक्षयाय तत्रैव, कर्मनिर्मूलनं त्विदम् ।। ८३५ ।। श्रमोत्पन्नव्यथाखिनः स प्रदीप इवाऽचिरात् । विभातायां विभावय निर्वाणाऽभिमुखोऽभवत् ॥ ८३६ ॥ अतिप्रवृद्धभावोऽसौ विहिताऽऽलोचनादिकः । आयुः क्षये विपद्याऽसौ महर्द्धिस्त्रिदशोऽजनि ||८३७ ॥ सामायिकव्रतं चक्रे यथाऽनेन महीभुजा । तथाऽन्यैरपि कर्तव्यमिदं सर्वसुखप्रदम् || ८३८ || दिग्वते योsवधिश्च तत्संक्षेपो दिने दिने । देशावका शिकं तत् स्यात् शिक्षाव्रतं द्वितीयकम् ॥ ८३९ ॥ देशावकाशिकं यस्तु परिपालयति व्रतम् । स सुखी जायते धीमान् धनसेनधनेशवत् ||८४० ॥ तथाहि रत्नखेटाख्ये खेटे रत्नधनाभिधः । श्रेष्ठी श्रेष्ठमतिस्तस्य धनसेनसुतोऽजनि ।। ८४१ ॥ स सर्वदा नीचसेवी स्वभावेन विदूषकः । परापवादतन्निष्ठः साधूनामपि दूषकः ॥ ८४२ ॥ अन्येर्विजने श्रेष्ठी प्रेम्णा पुत्रमजूहवत् । परापवाद मा वत्स ! कार्षीः कीर्त्तिलताहिमम् ॥ ८४३ ॥
१ सम्यगिति परः पाठः ।