________________
सप्तमः सर्गः।
२६५ अनर्थदण्डमुज्झन्ति ये नराः शिववादिनः । तेषामर्थाः प्रसिद्ध्येयुरनानामिवोज्झनात् ॥ ८१८ ॥ अथ मल्लिः प्रभुः प्राह शिक्षाबतचतुष्टयीम् । तत्र सामायिकं देशावकाशिकं च पौषधम् ॥८१९॥ अतिथेः संविभागश्च शिक्षाबतचतुष्टयीम् । यः पालयति पुण्यात्मा तस्य सिद्धिरसंशयम् ।।८२०॥ अङ्गिनां समभावो यः सर्वभूतेषु भावतः। पाहुः सामायिक तज्ज्ञास्तत् शिक्षापदमादिमम् ।।८२१॥ आधशिक्षापदस्थस्य श्राद्धस्याऽपि यतेरिव । चन्द्रावतंसनृपतेरिव कर्मक्षयो भवेत् ॥ ८२२ ॥ नगरं नाम साकेतं सङ्केतगृहवत् श्रियाम् । चन्द्रावतंसकस्तत्र नृपतिः समजायत ।। ८२३ ॥ हिमवृष्टिं विकुर्वाणः स्तनयित्नुरिवाधिकम् । पद्मिनीमानलुण्टाकः शिशिरर्तुरवातरत् ॥ ८२४ ॥ शिशिरे वर्तमानेऽस्मिन् माघमासेऽनघाशयः । रजन्यामगमद् राजा वासवेश्म गतस्मयः ॥ ८२५ ॥ विधिवद् भावनालीनो राजचिह्नर्विवर्जितः। दण्डकोच्चारसम्पूर्णमादात् सामायिकं व्रतम् ॥८२६॥ प्रज्वलिष्यति दीपोऽसौ यावद् ध्वान्तविलोपकः । स्पर्धयेव मया तावत् स्थेयं ध्यानवता सता ॥८२७॥ विचिन्त्येत्थं महीनाथः सामायिकपवित्रितः। अतिष्ठत् प्रतिमायां स रौद्राध्यानवर्जितः ॥८२८॥ तत् तल्पपालिका ध्वान्तं स्वामिनो मा स्म भूदिति । गते प्राग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥८२९॥ अचिन्तयन्नृपो मेऽसौ कर्मक्षयविधायिनी । 'संधास्यामि निजं भावं प्राक्तनकर्मभेदनम् ॥८३०॥
१ संध्यास्यामीत्यपि।