SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २६४ मल्लिनाथमहाकाव्ये वारं वारं ताराचन्द्र इत्याख्यां ग्राहकं स्फुटम् ॥८०५॥ प्रज्वलद्वह्निकुण्डस्य पुरस्थं कृष्णमासुरम् । ध्यानमापूरयन्तं च दाहयन्तं तिलादिकम् ॥८०६॥ करवीरारुणपुष्पैः पूजयन्तं च देवताम् । अद्राक्षीदेष निभृतं श्रेष्ठिनं लोभनन्दिनम् ॥ ८०७ ॥ (त्रिभिर्विशेषकम् ) अमुमर्थ गदिष्यामि तारेन्दोः प्राणदायकम् । यतो मया गृहे भुक्तमेतस्य स्नेहगौरवात् ॥ ८०८ ॥ तृणमुत्तारितं मूनी येन तस्याऽपि तन्यते। उपकारः किमेतस्य पुनः सर्वोपकारिणः ॥ ८०९ ॥ ध्यात्वेति विनिवृत्तोऽसौ प्रातस्तारेन्दुमन्दिरम् । यावद्गच्छति तावत्स मूकं लोकं विलोकते ॥ ८१० ॥ अथाऽपृच्छत् कथं लोको गतासुरिव दृश्यते ! । ततः कश्चिन्नरोऽवोचद् दाहोऽभूद् श्रेष्ठिनस्तनौ ॥८११॥ तल्लोभनन्दिनो नूनं विस्पष्टं दुष्टचेष्टितम् । यतोऽभिचारमन्त्राणां माहात्म्यं हि निरर्गलम्।।८१२॥ तत् ज्ञात्वा रत्नचन्द्रस्य नरेन्द्रस्यान्तिके गतः । तत् सर्व कथयामास तदीक्षामास भूपतिः ॥ ८१३ ॥ यथावदुक्तं तत्सर्वं तदागम्याधिगम्य च । अबन्धयद् श्रेष्ठिगलेऽश्मपिण्डं पापपिण्डवत् ॥८१४॥ तं चिक्षेप महाम्भोधौ दुष्टशिक्षापरो नृपः । ताराचन्द्रोऽपि संजज्ञे विहितौषधवत्पटुः ॥८१५ ॥ योऽनर्थदण्डमीदृशं कुरुते क्रूरधीः स हि । लोभनन्दिवदम्भोधौ भवाम्भोधौ निमजति ॥८१६॥ प्रणम्याऽथ जिनं राजा राजमानो मुदा भृशम् । उवाचाऽनर्थदण्डस्य शुश्रुवे निखिलं वचः ॥ ८१७ ॥ १ रक्तपुष्पप्रसूनैश्चेत्यपि ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy