________________
सप्तमः सर्गः ।
उपलक्ष्य यतः कर्त्ता नेत्रार्पणविधिं ननु ||७९२ || अहो ! मतिप्रपञ्चोऽस्य यच्चक्रेऽहं निरुत्तरः । विचिन्त्येति स मायावी मौनमाश्रित्य निर्गतः ॥ ७९३ ॥ चर्मकारं समाहूतं ताराचन्द्रोऽप्यभाषत । कैमक्येन पण्यं मे दीयमानं निषेधसि ? ॥ ७९४ ॥ चर्मकृत्तमुवाचेति यावदस्मि न तोषितः । त्वया ऋयाणकं नैव तावद् देयं हि कस्यचित् ॥ ७९५ ।। ताराचन्द्रोऽथ न्यगददिदं चर्मकृतां वर ! | अमुष्य रत्नचन्द्रस्य नरेन्द्रस्य सुतोऽजनि ।। ७९६॥ तस्य जन्मनि तुष्टस्त्वं नवेति वद कद्रद ? | सोऽप्युवाच सखे ! तुष्टः संजातोऽहं गिरा तव ॥ ७९७॥ ताराचन्द्रो नरेन्द्रस्य प्रणम्य क्रमपङ्कजम् । एतद्ग्रत्रयीमुक्तो व्यवहारपरोऽजनि ।। ७९८ ॥ इतश्च नगरे तंत्र द्यूतकारो धनाह्वयः । क्षुधया पीडितः कामं तारेन्द्रं समुपागमत् ।। ७९९ ॥ ताराचन्द्र ! क्षुधार्त्तोsहं देहि मे भोजनं वरम् । अन्यथा जीवितव्यदुः क्षुदवेन विनाश्यते ॥। ८०० ॥
यतः
२६३
क्षुधया परिभूतानां प्राणाः बुद्धिः पराक्रमः । एते सर्वे विलीयन्ते कल्पान्तेनेव पर्वताः ।। ८०१ ॥ क्षुधाक्लीवस्य जीवस्य पञ्च नश्यन्त्यसंशयम् । सुवासनेन्द्रियबलं धर्मकृत्यं रतिः स्मृतिः ||८०२ || सगौरवं कृतस्नेहं ताराचन्द्रेण भोजितः । अन्नदानात्परं दानं न भूतं न भविष्यति ।। ८०३ ॥ अथ द्यूतरतः सोऽपि लोभनन्दी गृहे निशि । पद्माकारमदात् खात्रं किमसाध्यं हि तादृशाम् १ || ८०४ ॥ अग्रांहींनम इत्यादि मन्त्राक्षरपरायणम् ।