________________
मल्लिनाथमहाकाव्ये
अङ्गीकृतमनेनाऽपि सत्यंकारो मयार्पितः ।
अत्रार्थे साक्षिणो नाथ ! बहवो विहिता मया ।। ७८० ॥ अथाह भूपतिः श्रेष्ठी न्याययुक्तं वचोऽवदत् । अनेन लभ्यमेवैतद् यतस्तिष्ठन्ति साक्षिणः ।। ७८१ ॥ ताराचन्द्रस्ततः प्राह सस्मितं संमतं मम । यद्येष ददते मह्यं प्रस्थमेकं समीहितम् ।। ७८२ ॥ लोभनन्दी ततः प्राह प्रस्थमेकं मनोगतम् । याचस्वेति विवादे हि कालक्षेपः क्षमेत किम् ? ॥ ७८३ ॥ ताराचन्द्रोऽप्यभाषिष्ट शृणु मे रुचिरं वचः । उत्तरानिलपूतानां खण्डितानामुदूखले ॥ ७८४ ॥ रामाकरगृहीतानां समक्षं नृपपर्षदः । प्रदेहि मशकस्याsस्थनां प्रस्थं स्वच्छ ! ममाधुना ॥ ७८५।। ( युग्मम् )
एवं तारेन्दुना प्रोक्ते विलक्षोऽजन्यसौ वणिक् । असाध्यं न मतेः किञ्चिज्जलानामिव धीमताम् ||८७६ ॥ सचिवोऽपि समाहूतो नत्वा नृपमुपाविशत् । ऊचे नृपतिरेतस्य निषिद्धं किं क्रयाणकम् १ || ७८७॥ सोऽप्यूचे दक्षिणं चक्षुरस्य ग्रहणकेऽस्ति मे । स्वर्णलक्षं गृहीत्वाऽसौ तदर्पयतु साम्प्रतम् ॥ ७८८ || राजोक्तं शोभनं वक्ति मन्त्र्ययं नयकोविदः । ताराचन्द्रस्ततः माह युक्तमुक्तं विपश्चिता ॥ ७८९ ॥ राजन् ! मे मन्दिरे नूनं सहस्राणि दृशां नृणाम् । त्वन्मध्यपतितं नेत्रं न जाने हन्त ! निश्चितम् ॥ ७९०॥ त्वं वामलोचनं मन्त्रिन् ! समुद्धृत्य समर्पय । येनोपलक्ष्यते पूर्ण विदधामि मनोरथम् ॥ ७९१ ॥ विहस्याऽथ नृपोऽवादीद् युक्तियुक्तं वदत्ययम् । १ स्वच्छमते !, एवमपि ।
२६२