________________
सप्तमः सर्गः।
२६१ यदि पृच्छेत् तदा पुत्रो रिक्तायां तु सुता भवेत् ॥ ७६६ ॥ पार्थिवे जीवविज्ञानं मूलज्ञानं जलेऽनिले । आग्नेये धातुविज्ञानं व्योम्नि शून्यं विनिर्दिशेत् ॥ ७६७ ॥ एवं तं पाठयन्नस्ति मन्त्र्यागाद् वञ्चनामतिः । पूर्ववत् कथयामास स पूर्ववदभाषत ॥ ७६८ ॥ : अथ चर्मकृति प्राप्ते पूर्ववद् गदिते सति । मन्त्री कृष्णमुखो जातो मृतज्येष्ठसुतो यथा ॥ ७६९ ॥ तच्छ्रुत्वा चर्मकारोऽपि निरानन्दो गतस्मयः । विप्रस्य कटुकैर्वाक्यैः श्रेष्ठिवन्मानसे भृशम् ॥ ७७० ॥ तारेन्दुर्भट्टवाक्यानि सुधारससमान्यथ । आकर्ण्य मुदितस्वान्तः सततं सुमना ययौ ॥ ७७१ ॥ अथ पातपाभ्यर्णमागत्य सह वेश्यया । ताराचन्द्रेण सर्वोऽपि स्ववृत्तान्तो निवेदितः ॥ ७७२ ॥ अथ श्रेष्ठी समाहूतो भूमिपालेन कोपिना । आगतः सोऽपि साशकं नत्वा भूपमुपाविशत् ॥ ७७३ ॥ रोषरक्तेक्षणः क्षमापः साक्षेपं स्मेति भाषते । रे! श्रेष्ठिन्नीदृशं कर्म मर्माऽऽविष्कुरुषेत्र किम् ? ॥७७४॥ अराजकमिदं राज्यं किं वा न्यायो न विद्यते? । येन कार्याण्यनार्याणि क्रियन्ते निजयेच्छया ॥ ७७५ ॥ श्रेष्ठी सधैर्यमूचे च गत्वाभ्यर्णेऽस्य साञ्जसम् । संलापपूर्वकं राजन् ! निविष्टोऽहं यथाविधि ॥ ७७६ ॥ अनेनोचे सखेऽमीषां भाण्डानां मम विक्रयात् । संभाव्यते कचिल्लाभस्ततोऽजल्पमधीश्वर ! १ ॥ ७७७॥ त्वदीयपण्यराशीनां विक्रयो भविता न हि । ततोऽयमगददेव ! निर्भाग्योऽहं महामते ! ॥ ७७८ ॥ यत् किञ्चिद्रोचते तुभ्यं तद्भाण्डपस्थिकं सखे!। भृत्वा शीघ्रं ग्रहीष्यामि कुभाण्डान्यखिलान्यपि ॥७७९॥