________________
२६०
मल्लिनाथमहाकाव्ये
होरां विचार्य सोऽप्यूचे यदीदं पोतनायकः । वक्ष्यते वचनं प्राज्ञस्तदा तव किमुत्तरम् ॥ ७५३ ।। न किंचित् शोभनं भद्र ! भविता प्रत्युताऽऽपदं । श्रुत्वेति शून्यधीः पाप मन्दिरं श्रेष्ठिसुन्दरः॥७५४ ॥ अथाख्यत् तस्य पार्श्वस्थश्छात्रः पात्रं महाधियाम् । होराज्ञानस्य तत्त्वार्थ पुनः पाठय मां प्रभो! ॥ ७५५ ॥ तत्र पाठयितुं भट्ट उपाक्रमत सत्वरम् । विनेयविद्यादाने हि बुधाः स्युः सततोद्यमाः ॥ ७५६ ॥ वेदाध्ययनदानेषु देवार्चासु विषोद्धृतौ । पुरीधामप्रवेशेषु वामा होरा शुभा मता ॥ ७५७ ॥ संग्रामे भोजनस्नाने स्त्रीसंगे राजदर्शने । क्रूरकर्मसु शेषेषु दीप्ते वामेतरा मता ॥७५८ ॥ दक्षिणे यदि वा वामे यत्र वायुर्निरन्तरम् । तं पादमग्रतः कृत्वा निस्सरेद् निजमन्दिरात् ॥ ७५९ ॥ गुरुबुधनृपामात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्गे खलु कर्त्तव्या कार्यसिद्धिमभीप्सता ॥ ७६० ॥ आसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः । वशीभवन्ति कामिन्यो न कार्मणमतः परम् ॥ ७६१ ॥ यदा पृच्छति चन्द्रस्थस्तदा संधानमादिशेत् । पृच्छेद् यदा तु सूर्यस्थस्तदा जानिहि विग्रहम् ॥ ७६२ ॥ चन्द्रस्थाने यदा वायुः सूर्यस्थाने च पृच्छति । तदा न रक्ष्यते रोगी मृत्योर्वेधशतैरपि ॥ ७६३ ॥ रविस्थाने यदा प्राणः प्रष्टा पृच्छति चन्द्रगः । तदासौ म्रियते रोगी यदि त्राता सुरेश्वरः ॥ ७६४ ॥ यस्मिन्न) चरेद् वायुस्तत्रस्थो यदि पृच्छति । पीडितोऽपि तदा रोगै रोगी जीवत्यसंशयम् ॥ ७६५ ।। वहन्तीं नासिकां वामां दक्षिणां चाभिसंस्थितः ।