________________
सप्तमः सर्गः।
२५९
यद्यर्पयसि तत्तोषो जायते मम नान्यथा ॥ ७३९ ॥ ममानुज्ञां विना पण्यं चेद्विवेष्यसि किश्चन । तद् भूपाज्ञाविभङ्गस्य कारयिष्यामि कारणम् ।। ७४० ॥ एवमुक्त्वाऽगमचर्मकारः कारुककूटधीः । जगाम नगरस्यान्तस्ताराचन्द्रोऽपि पर्यटन् ॥ ७४०॥ दृष्टो मदनमञ्जर्या वेश्यया शस्यरूपया। लक्षीकृतः कटाक्षाणां स साक्षादिवसात्यये ॥ ७४२ ॥ आनायितो गृहे श्रेष्ठी प्रेष्य चेटीं सुलोचनाम् । स्नपितो भोजितो भक्त्या परमानन्दमेदुराम् ॥ ७४३ ॥ एवं निवसतस्तस्य किंयन्त्यपि दिनान्यगुः । अन्येयुः स तया पृष्टः कस्त्वं कस्मादिहागतः ॥ ७४४ ॥ ततस्तेन स्ववृत्तान्तः समीचीनो निवेदितः।। साऽवोचद् विपदः प्राप्ती खेदः कार्यो न कोविदः ॥७४५॥ आपदः संपदोऽप्यत्र समीपस्थाः शरीरिणाम् । न शोकहर्षयोस्तस्मादर्पणीयं मनो बुधैः ॥ ७४६ ॥ एवमुक्ताऽथ सा गत्वा नत्वा भट्ट त्रिलोचनम् । एवं विज्ञपयामास रूपाजीवा सुकोमलम् ॥ ७४७ ॥ मत्पतेस्तारचन्द्रस्य व्यसनं महदुत्थितम् । निस्तरिष्यति तत्सौख्यानवेति वद कोविद ! ॥ ७४८ ॥ सोऽप्युवाच तव पतिर्व्यसनं निस्तरिष्यति । सुखेनाऽपि न खेदस्तत्त्वया कार्यो निजे हृदि ॥ ७४९ ॥ श्रुत्वेत्युपश्रुतिप्रायं हृष्टा वेश्यागृहं गता। यामिन्यां प्रेषयामास तारेन्दु रविमन्दिरे ॥ ७५० ॥ प्रछन्नीभूय सूर्यस्य मन्दिरेऽस्थाद् वणिग्वरः। इतोऽभ्यागाल्लोभनन्दी छात्रेण विनिवेदितः ॥ ७५१ ॥ आख्याय पूर्ववृत्तान्तं श्रेष्ठिनोदितमीदृशम् । निरूपय निजां होरा निर्वाहो भविता नवा ॥ ७५२ ॥