________________
मल्लिनाथमहाकाव्ये
द्वितीये यामिनीयामे सचिवो वञ्चनामतिः । ताराचन्द्रं छलयितुं हृष्टः प्राप तदन्तिके ॥ २६ ॥ उचितप्रतिप्रश्याऽसौ ताराचन्द्रेण विष्टरे । उपविश्य पप्रच्छेऽथ स्वागतं मन्त्रिणोऽन्तिके ॥ २७ ॥ मन्त्रिणा वार्त्तावसरे भणितं क्रूरचेतसा । पुराsहं चौरवत् क्षिप्तवार के जगतीभुजा ॥ २८ ॥ तस्मात् कथश्चिद् नष्ट्वाऽहं पोतादुत्तीर्य सागरम् । पुरं भोगपुरं प्राप त्वत्पितुः सदनं स्थितः ॥ २९ ॥ मया समक्षं लोकानां चक्षुर्मुक्त्वाऽथ दक्षिणम् । जगृहे स्वर्णलक्षश्च ततोऽत्राऽऽगां नृपान्तिके ।। ७३० ॥ तन्मङ्गल्यपदे दत्वा क्षमयित्वा स्वदुर्नयं । पूर्ववत्सचिवो जातो द्रव्यात् किं न प्रजायते १ ।। ७३१ ॥ मत्पुण्यैस्त्वमिहायातः स्वर्णलक्षमिदं सखे ! | गृहाणाऽर्पय मे चक्षुर्व्यवहारं प्रवर्त्तय ॥ ७३२ ॥ दत्ते मे लोचने भद्र ! कर्त्तव्यो भाण्डविक्रयः । आहारे व्यवहारे च सज्जा लज्जा सतां न यत् ॥ ७३३ ॥ इत्युक्त्वा सचिवे याते विमनाः पोतनायकः । चिन्तया रजनीयामयुगं युगमिवाऽनयत् ।। ७३४ ॥ मायामयो महामायः पर्यटस्तत्कुटीतटे ।
२५८
आगात् सन्धापयाञ्चक्रे वणिजो पादरक्षणम् || ७३५ ॥ चर्मकारस्ततः प्राह किं मे दास्यथ वेतनम् ? | पोतनाथ उवाच त्वां तोषयिष्यामि सर्वथा ।। ७३६ ॥ कृतकार्यममुं दृष्ट्रा सोऽथाऽवोचत रूपकम् । द्रम्मं द्रम्माष्टकं द्रम्मशतं वा त्वं गृहाण भोः ! ॥ ७३७ ॥ ततो द्रम्मसहस्रेषु दीयमानेषु तेन तु ।
नायं सन्तोषवान् जातः किं पुनर्भूरिवाञ्छकः १ ॥ ७३८ ॥ अथोचे चर्मक्रुद् श्रेष्ठिन् ! पोतपण्यं ममाखिलम् ।