________________
सप्तमः सर्गः । आचार्योक्तमिति श्रुत्वा संवेगरसरङ्गितौ । प्रापद्येतां व्रतं रात्रिभोजनप्रतिषेधकृत् || ६८६ ॥ आचार्या अपि निर्ग्रन्थैः सार्द्धमन्यत्र धीधनाः । विजहुः कोकिला भृङ्गा हंसा न नियता यतः ॥ ६८७|| अन्येद्युस्तावपि प्रति ग्रामे घाटीं विधाय च । अगृह्णीतां धनान्युच्चैर्गोधनानि विशेषतः || ६८८ ॥ तयोः परिच्छदैः पापैर्निवृत्तैः प्रान्तरान्तरे । पीनाङ्गो महिषः कोऽपि हतो धौतैः परश्वधैः ॥ ६८९ ॥ कैश्चित् प्रविश्य ग्रामान्तः क्रीतं मैरेयमुच्चकैः । पुंसां पापप्रवृत्तानां सर्वव्यसन संभवः ||६९० ॥ अनयोः पत्तिभिश्चैवं चिन्तितं दुष्टमानसैः । मारयामो विषं दत्त्वा मदिराक्रायिकान् यदि ॥ ६९१ ॥ एतत्सर्वं धनाद्युच्चैरस्माकं भागवज्र्जितम् ।
सकलं जायते यस्मान्मारणीया विभागिनः ॥ ६९२ || मैरेयकायिकैरेवं ध्यात्वेति गरलं क्षणात् । मदिष्ठायां प्रदिष्ठायां चिक्षिपे गन्धधूलिवत् ॥ ६९३॥ तदीयविषदानस्य शङ्कया पादचारतः । अस्तपर्व्वतमारुह्य पपाताऽम्भोनिधौ रविः ||६९४॥ प्रसस्त्रे तिमिरैर्विष्वग् नागपूगानुजैरिव । घूकैर्जुघुषिरे भीमै रक्षोमङ्गलतूर्यवत् ॥ ६९५ || अथोभयेऽपि मिलितास्तस्कराः क्रूरचेष्टिताः । परस्परं निजं वस्तु प्राभृतं विदधुस्तदा ।। ६९६ ॥ स्वामिनौ ! पश्यतामेतत्सुखादर सपेशलम् । अथोचतुर्महाभागौ निषेधो रात्रिभोजने || ६९७॥ सुस्थाSवस्थासु नेतारौ ! पाल्यतां नियमस्थितिः । शरीरमाद्यं सर्व्वत्र साधकं धर्म्मकर्म्मणि ॥ ६९८|| हो ! भद्रमुखास्तेषां गुरूणां पादसंनिधौ ।
२५५