________________
मल्लिनाथमहाकाव्ये
तावपि शृणुतः स्मोच्चैः सिद्धान्तध्वनिमुत्तमम् । अवानौ पदव्याख्यां दृष्टान्तास्थितिशालिनीम् || ६७३ ॥ वर्षारात्रे व्यतिक्रान्ते शोषमायाति कर्द्दमे । कूलमध्यप्रवाहासु कूलिनीषु समन्ततः ॥ ६६४ || शरत्कालश्रियो हासे कामे पुष्यति सर्व्वतः । विहारं कर्तुमारब्धा आचार्याः साधुचर्यया ।। ६७५ ।। (युग्मम् ) द्वावपि भ्रातरौ सूरीननुगन्तुं शुभाशयौ । गर्भश्राद्धोपमौ भक्त्या प्रवृत्तौ सपरिच्छदौ ||६७६॥ उचिते भूमिभागेऽधः सूरिः स्थित्वा प्रशान्तगीः । उवाच भद्रकौ ! वाक्यमास्माकीनं निशम्यताम् ||६७७॥ शुद्धान्नपानदानेन सान्निध्याद् भवतोरिह । सौख्येन संस्थिता वर्षारात्रमेकदिनं यथा ॥ ६७८ ।। आज्ञया जिनराजस्य निर्ग्रन्थभटवेष्टिताः । वयं मोहरिपुं जेतुं चलिताः सैन्यपा इव ॥ ६७९ ॥ धर्मश्रवणमस्माकं न जातं भवतोः कचित् । परमेकं वचश्चारु विधेयं शुभवृद्धये || ६८०|| अभिग्रहाणामन्येषां भवन्तो न सहिष्णवः । रात्रिभुक्तिपरीहारो भावशुद्ध्या विधीयताम् || ६८१ ॥
२५४
यतः
भ्रमन्ति सर्वतो भीमा रजन्यां रजनीचराः । अतो निशि न भोक्तव्यं दुष्टवेलेति दूषणात् ||६८२ ॥ मक्षिका कुरुते वान्ति प्रज्ञां हन्ति पिपीलिका । कोलिकः कुष्ठरोगं तु विधत्ते निशि भोजनात् ||६८३॥ स्वरभङ्गं कचः कुर्यादलिर्विध्यति तालु च । दोषानेवंविधान् ज्ञात्वा रात्रौ कोऽश्नाति कोविदः १ ६८४ आयुर्वर्षशतं लोके तदर्द्ध स उपोषितः । करोति विरतिं धन्यो यः सदा निशि भोजनात् || ६८५॥