________________
सप्तमः सर्गः ।
वर्षाकालः समायातो न गन्तुं युज्यते कचित् || ६६०॥ मुनिवामिमां श्रुत्वा बभाषाते इति स्फुटम् । अत्र तिष्ठन्तु निष्ठां स्वां तन्वाना गुरुभिः समम् ।। ६६१ ॥ अन्नप्रभृति यत्किञ्चिद् रोचते वो निरन्तरम् ।
भवद्भिर्ब्राह्यं लक्ष्मीर्दानफला ! यतः || ६६२ || अवोचतां मुनी भद्रौ ! न निग्रन्थानां कल्पते । एकस्मिन्नपि संस्त्याये ग्रहीतुमशनादिकम् ||६६३॥
२५३
यतः
यथा द्रुमस्य पुष्पेषु रसं पिबति षट्पदः ।
न च पुष्पं क्लामयति स स्वं प्रीणाति नित्यशः ॥६६४॥ तथा सुसाधवो धीराः प्रविष्टा गोचरक्षणे । गृहेषु गृह्णते भिक्षामवृद्धा रससंपदि || ६६५ || भो ! भो ! भद्रौ ! परं शुद्धं स्त्रीषण्डपशुवर्जितम् । कुलीन जनगेहाऽन्तः संप्रदत्तामुपाश्रयम् ||६६६॥
यतः
यो ददात्याश्रयं ज्ञानशालिनां तत्रमालिनाम् । वस्त्रान्नपानशय्यादि सर्व प्रादायि तेन यत् || ६६७ || परोपकारः स्वाध्यायो ज्ञानाभ्यासश्च संयमः । एतन्निर्मार्पितं तेन येन दत्त उपाश्रयः || ६६८ ॥ प्राप्नोति राज्यचक्रित्वस्वर्गिशऋश्रियं नरः । उत्पत्ति सुकुले कीर्त्तिं स्फुर्त्तिं च जनपर्षदि || ६६९|| शय्यादानप्रभावेण भवाधि तरति क्षणात् । अतः शय्यातरस्तीर्थकरैः सर्वैरुदाहृतः ॥ ६७० ॥ निशम्येति मुनिप्रोक्तमभ्यधत्तां मुनीन् प्रति । असावुपाश्रयः साधु ! गृह्यतां विधिपूर्वकम् ||६७१ ।। तत्राsस्थुः मूरयः श्रीमत्सिद्धान्तार्थस्य वाचनाम् । वितन्वानाः समाधानं सावधान स्वमानसाः ||६७२ ||