SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ मल्लिनाथमहाकाव्ये अयमतिक्रान्तं दध्यन्नं कथितं त्यजेत् || ६४७ ॥ इदं भोजनतः प्रोक्तं कर्मतोऽङ्गारकर्म च । वनच्छेदं शकटं च भाटकं स्फोटकर्म च ॥ ६४८ ॥ रसकेशविषाणां तु वाणिज्यं दन्तलाक्षयोः । यन्त्र पीडानिलच्छनदवदानानि कानने ।। ६४९ ॥ सरःशोषविडालश्वकुक्कुटादिकपोषणम् । २५२ धर्मार्थी वर्जयेन्नित्यं जीवेषु करुणापरः || ६५० ॥ भोगोपभोगविरतिं कुर्वन्ति मनीषिणः । ते लभन्ते सुखं भीमभीमसेनौ यथाश्रुतौ ||६५१|| संनिवेशे निवेशाख्ये व्रजवजविराजिनि । अभूतां भ्रातरौ भीमभीमसेनाऽभिधावुभौ ||६५२|| पूर्वापरयोराशिपयांसीव युगक्षये । सर्वदि संभवाः क्रूरा अमिलंस्तस्करास्तयोः ||६५२॥ धनान्यहरतां सार्द्धं तस्करैर्योधनान्यपि । बभञ्जतुः पुराण्युचैरगृह्णीतां प्रवासिनः ||६५४ || अन्येद्युर्विमहासच्त्राः पावयन्तो महीतलम् । तत्राऽऽचार्याः समाजग्मुः शमश्री पुरुषोत्तमाः || ६५५॥ अथाऽऽविरभवद् व्योम्नि प्रचण्डा घनमण्डली । मण्डलीकृत सुत्रामाऽखण्डकोदण्डमण्डना || ६५६ | पदव्यस्तटिनीयन्ते वार्डीयन्ते सरिद्वराः । सरांसि मानसायन्ते वरीवृषति वारिदे ||६५७॥ जनानामपि संचारो निषिद्धः प्रसृतैर्जलैः । 'का पुनर्यमिनां वार्त्ता प्रासुकाध्व विहारिणाम् ? ।। ६५८ ॥ आचार्यैः प्रेषितं साधुयुगलं विपुलं धिया । तत्तयोः पार्श्वमागत्य बभाषे निपुणं वचः ॥ ६५९॥ आयुष्मन्तो ! भवत्पार्श्वे प्रेषितौ गुरुणाऽधुना । SS १ कुथितमपि ।
SR No.022561
Book TitleMallinatha Charitra
Original Sutra AuthorN/A
AuthorHargovinddas Pt Becharas Pt
PublisherHarshchand Bhurabhai
Publication Year1914
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy