________________
सप्तमः सर्गः ।
२५१
धीराणां कातराणां च व्यसने लभ्यतेऽन्तरम् ||६३४ || अथाsनापृच्छय भूपालं मन्त्री नीतिघटस्ततः । किञ्चित् सैन्यं समादाय प्रतस्थे द्विजिगीषया ॥ ६३५ ॥ अतिश्रान्तं बलं ज्ञात्वा मन्त्रिणोरिमहीभुजः । विजिग्यरे ततो नीतिघटं जघ्नुव लीलया ।। ६३६ ॥ मन्त्रिणं नृपतिः श्रुत्वा कालधर्ममुपागतम् । आचार्यानेव तुष्टाव भवाम्भोधि घटोद्भवान् ॥ ६३७ ॥ यैर्मेनियमदानेन प्रदत्तमिह जीवितम् ।
प्रणम्य तत्पदद्वन्द्वं ग्रहीष्यामि महाव्रतम् ।। ६३८ ॥ इति निश्चयमादाय ववले नगरं प्रति ।
मार्गस्याऽर्धे च तान् राजा दृष्टवान् मुनिपुङ्गवान् ।। ६३९ ।। तेषां गुरूणामभ्यर्णे भवार्णवतितीर्षया । अगृह्णाद् भूमिपालोsथ व्रतं निर्ग्रन्थसेवितम् ॥ ६४० ॥ महाव्रतं परिपाल्य यथोक्तं नृपसंयमी । जगामाऽप्यच्युतं कल्पं तस्मात्सिद्धिमवाप्स्यति ॥ ६४१ ॥ कथान्ते न्यगदद् राजा शिरःप्रणतिपूर्वकम् । धन्योऽसौ दिग्मितौ येन विशुद्धो नियमः कृतः । ६४२|| भोगोपभोगयोः संख्या क्रियते या महीपते ! | भोगोपभोगनामाऽस्ति तद् द्वितीयं गुणव्रतम् ॥ ६४३ ॥ भोज्यभेदात् कर्मभेदादिदं संभवति द्विधा । भोज्येषु बहुवीजानि खरकर्माणि कर्मसु ।। ६४४ ॥ भोज्यभेदे फलं सर्वमज्ञातं बहुवीजवत् । अनन्तकाय मांसानि मद्यपानं निशाऽशनम् ॥ ६४५ ॥ न्यग्रोधोदुम्बरप्लक्ष काष्ठोदुम्बरभूरुहाम् । श्रीवृक्षस्य च नो भोज्यं श्राद्धैर्जीवाऽऽकुलं फलम् ६४६ अपकं गोरसोन्मिश्रुपुष्पितं द्विलं तथा ।
१ - पि महीभुजः, एवमपि । २ विदलमित्यपि ।