________________
२५०
मल्लिनाथमहाकाव्येलोभान्धाः किं न कुर्वन्ति परद्रव्यजिघृक्षवः ॥६२१॥ लोभव्यालमहामन्त्रं दिग्प्रमाणाऽभिधं व्रतम् । समाहितैः प्रपन्नं यैस्तैः कृता प्राणिनां कृपा॥६२२॥ श्रुत्वेति जगतीनाथः काष्ठासु चतसृष्वपि । विशेषतो दिग्विरतौ योजनानां शतं व्यधात् ॥६२३॥ पुनः प्रणम्य निग्रन्थं ग्रन्थवद् वर्णभासुरः। आगत्याऽऽत्रासमुर्वीशः श्राद्धधर्ममपालयत् ॥ ६२४ ॥ समभूदभ्यमित्रीणो मित्रानन्दो नृपोऽन्यदा । देशान्ते शत्रुभिः साकं संग्रामः समजायत ।। ६२५॥ भूपेन निर्जिताः सर्वे बलीयांसोऽपि लीलया। . तेषां प्रणश्यतां पृष्ठे गतो दूरं महीपतिः ॥ ६२६ ॥ स दूरातिक्रमं ज्ञात्वा राजा पप्रच्छ मन्त्रिणम् । कियन्मानां भुवं भद्र ! समायाता वयं पुरात् ॥६२७।। मन्त्री प्रोवाच नगराद् योजनशतमागताः । ततोऽसौ चिन्तयामास स्मृतदिग्विरतिव्रतः॥६२८॥ न गन्तव्यं मया कापि योजनानां शतात्परम् । ईदृक्षो नियमोऽग्राहि केवलज्ञानिनोऽन्तिके ।। ६२९ ॥ अथ मौनपरं भूपं दृष्ट्वा मन्त्री व्यजिज्ञपत् । क्रियतां सत्वरं देव ! प्रयाणकमभिद्विषः ।। ६३० ॥ यस्मात्सन्ति महीपाल ! शत्रवोऽभ्यर्णचारिणः। . अथ प्रोवाच भूपालो नाऽहं गन्तास्म्यऽतः परम्॥६३१॥ दिग्विरतिव्रते मन्त्रिन् ! समस्ति मैम निश्चयः । नाऽतः प्रयाणं कर्तास्मि श्रेयोनिश्चयपालनम् ॥६३२॥ सुस्थाऽवस्थासु भूपाल ! पाल्यतां नियमस्थितिः। विधुरे प्रोद्गते सर्व कार्य कार्य यथाविधि ॥ ६३३ ॥ विशेषाद् विधुरे मन्त्रिन् ! कार्य नियमपालनम् ।
१ -भासुरमित्यपि । २ मिति- इति च ।