________________
. सप्तमः सर्गः।
२४९ विषयेभ्यो निवृत्तोऽपशकुनेभ्य इवाध्वगः ॥ ६०८ ॥ प्रसरत् सलिलं यद्वत्सेतुबन्धेन बाध्यते ।। यद्वत् तुरग उन्मार्गप्रसक्तो वरसादिना ॥ ६०९ ।। यथा कुलवधूः पत्या स्वैरिणी गणसङ्गिनी। अप्रवृत्तिप्रवृत्तौ राद् तथाऽऽचार्यः सुमन्त्रिभिः ॥ ६१० ।।
(युग्मम् ) भवन्तो गुरवोऽस्माकं भवन्तः सुहृदोऽपि च । भवन्तो नयनमाया भवन्तश्च विपश्चितः ॥ ६१२ ॥ अन्येाश्चन्द्रशालायामास्थितः पृथिवीपतिः । अपश्यत् स्फारशृङ्गारं जनं यान्तं पुरो बहिः ॥६१२।।
राजस्तव वरोद्याने केवली सुव्रताभिधः। • समागादित्युवाचोच्चैः कश्चित् पृष्टो महीभुजा ॥६१३।। मित्रानन्दः कृतानन्दः सचिवैः सह वन्दितुम् । नत्वा गत्वा मुनि भक्त्या विनिविष्टः कृताञ्जलिः॥६१४॥ मुनिपतिमुद्दिश्य व्याजहारेति कोमलम् । आशापिशाची सुदृढा तया व्याप्तं जगत्रयम् ॥६१५॥ चिन्ताचक्रसमारूढो योगदण्डसमाहतः । प्राच्यकर्मकुलालेन भ्राम्यते घटवद् नरः ॥ ६१६ ॥ आतपच्छाययोर्यद्वत् सहाऽवस्थानलक्षणः । विरोधस्तद्वदत्रापि विज्ञेयः सुखवाञ्छयोः ॥ ६१७ ॥ '' वाञ्छा चेन सुखं जन्तोस्तदभावे परं सुखम् ।
न भूतानि न भावीनि सुखानि सह वाञ्छया ।। ६१८॥ जीवानिरागसो नन्ति मृषावादं वदन्ति च । कुर्वन्ति कूटदम्भादि वश्चयन्ति निजानपि ॥ ६१९ ॥ पूज्येभ्योऽपि हि द्रुह्यन्ति निन्दन्ति स्वगुरूनपि । आरभन्ते महारम्भान् लुम्पन्ति यामनगमान् ॥६२०॥ गोहत्यां भ्रूणहत्यां च ब्रह्महत्यां च नित्रपाः ।