________________
२४८
मल्लिनाथमहाकाब्येकाचित्पावकदग्धेति ज्ञात्वा गोपाधिपेन सा। गृहीता खौकसि प्रीत्या स्पृष्ट्वाऽङ्गानि मृदूनि च ।। ५९७ ॥ एरण्डपत्रजीर्णाद्यैरुत्तार्य ज्वलनं ततः। उल्लाघा विदधे कालक्रमेण पणसुन्दरी ॥ ५९८ ॥
(युग्मम् ) ततः कलत्रमस्याऽभूदेषा विधिविजृम्भणात् । जन्मान्तरशतानि स्युरेकस्मिन्नपि जन्मनि ।। ५९९ ॥ स गोपाधिपति म्यन् दुर्दूरूढपुरेऽगमत् । नैकत्र स्थितिरेतेषां शरत्पाथोमुचामिव ॥ ६०० ।। सा चूतपल्लवीच्छन्नविग्रहा गोपगेहिनी । मस्तकन्यस्तदध्याऽऽज्यनवनीतादिभाजना ॥ ६०१ ॥ तक्रं गृह्णीत गृह्णीत वदन्ती सुदती भृशम् । इन्द्रकीले स्खलित्वाऽसौ पपात चललोचना ॥ ६०२ ॥ पुस्फुटुस्तत्र भाण्डानि मूर्खनिर्दिष्टमन्त्रवत् । ततोऽन्याभिरियं स्नेहाद् बभणे गोपकामिनी ॥ ६०३ ॥ सखि ! भग्नानि भाण्डानि, करिष्यसि किमुत्तरम् ? । निजस्य पुरतः पत्युनिकेतनगता सती ॥ ६०४ ।। किंचिद् विहस्य साऽप्यूचे सख्यः ! शोचामि किं ननु ? । शोचनीयं मया प्राज्यमनृणं हि ऋणं बहु ॥६०५ ॥ हत्वा नृपं पतिमवेक्ष्य भुजङ्गदष्टं
देशान्तरे विधिवशाद् गणिकाऽस्मि जाता। पुत्रं भुजङ्गमधिगम्य चितां प्रविष्टा __शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ ६०६ ॥ एवं लोलेक्षणावृत्तं श्रुत्वा भोगपुरेश्वर!। जीवितव्यव्ययकरी विषयाशां श्लथीकुरु ॥ ६०७ ॥ मित्रानन्दस्ततोऽवोचद् युष्मदुक्तकथाश्रुतेः । १ गेहिनीत्यपि।