________________
सप्तमः सर्गः ।
२४७
दवा दानानि दीनेभ्यो भस्मसात्समजायत ॥ ५८३ ॥ साऽपि तद् दुष्कृतं प्रोचे वेश्यायाः पुरतो निजम् । मातरत्रिं प्रवेक्ष्यामि सुवर्णमिव शुद्धये ।। ५८४ ॥ पुत्रि ! चान्द्रायणादीनि व्रतानि विविधान्यपि । विधाय दुष्कृतं सर्वे प्रक्षालय शुभाशये ! ।। ५८५ ॥ दत्त्वा दानानि तीर्थेषु पुत्रि ! पातकमुत्सृज । नेदं तव वपुः सोढा हुताशं स्फुरदर्चिषम् ।। ५८६ ॥ महातीर्थनमस्कारात् तिलस्वर्णादिदानतः । पुत्रसङ्गादिकं पापं प्रयाति क्षयमञ्जसा ।। ५८७ ॥ एवं स्मार्त्तानि वाक्यानि श्रावयन्ती द्विजाऽऽननात् । दिनयामत्रयं यावत् खेदिता सा पणाङ्गना ।। ५८८ ।। aatशनैर्मातः ! करिष्ये भोजनं स्फुटम् । इति मे निश्चयो धर्मकार्ये विघ्नक्रियेति किम् ? ॥ ५८९ ॥ इति निश्चयमेतस्याः परिज्ञायाऽथ कुट्टिनी | ऊचे द्रव्यमिदं सर्वं कृतार्थीकुरु दानतः ।। ५९० ॥ ततः सा विहितस्नाना ददाना दानमद्भुतम् । चितापार्श्वे समागत्य पौरलोकसमाकुला ।। ५९१ ॥ चितां प्रदक्षिणीकृत्य विवेशाऽग्नौ पणाङ्गना । इतोऽभूद् डामरो वातो महावृष्टिरजायत ।। ५९२ ॥ तदङ्गस्पर्शभीत्येव ज्वलनो ज्वलितोऽपि सन् । निर्वाणः, नागरो लोकः प्रनष्टो जलताडितः ।। ५९३ ॥ किंचिद् दग्ध्वा ततो वेश्या निर्गत्य चितिमध्यतः । सरयूसरितस्तीरे पपात चितिदारुवत् ।। ५९४ । स्तोकाम्भसि शफरीव वेपमाना मुहुर्मुहुः । रोदयन्ती दिशां चक्रं चक्रन्द कुरुरीव सा ।। ५९५ ।। विरते वारिदे दृष्टेः कोऽपि गोपः समापतत् । शुश्राव रुदितं तस्या निशीथे करुणापरः ।। ५९६ ॥