________________
२४६
मल्लिनाथमहाकाव्ये
स्थानभ्रष्टा च रुष्टा च नष्टा कष्टादुपागता। अस्मदावासयोग्याऽसौ योग्या कुसुमधन्विनः ।। ५७० ॥ ध्यात्वेति पुत्रि ! जामेयि ! कथं नागा गृहे मम ?।' दैवादुपागते दुःखे का त्रपा मातृमन्दिरे ? ।। ५७१ ।। इत्युक्त्वा निजबाहुभ्यामुपगृह्य पणाङ्गना । दृशौ बाष्पाऽश्चिते कृत्वा तां निनाय निजालयम् ॥५७२।। स्नपयित्वा च तां प्रीत्या विलिप्तां चन्दनद्रवैः । गणिका चन्द्रिकाशुभ्रे वाससी पर्यधापयत् ॥ ५७३ ।। आगच्छद्भिश्च गच्छद्भिर्नरैः प्राभृतसंभृतैः। देवता सकलेवाऽसौ सेव्यते स्म दिवानिशम् ॥ ५७४ ॥ अन्येार्ग्रहणं दत्वा स्थितः कश्चिद्धनेश्वरः। . रमयित्वा निशां सा प्रातः पृष्टेति तेन सा ॥ ५७५ ॥ कौतस्कुताऽसि रंभोरु ! किमाख्याऽसि सुलोचने ! ? । त्वां दृष्ट्वा मे मनोजातं प्रेमाई तन्वतो वद ॥ ५७६ ॥ साऽप्याख्यद् मूलतो वृत्तं नामस्थानपुरस्सरम् । ततः शय्यातलं मुक्त्वा विदूरस्थो जगाद सः॥ ५७७ ॥ तव सूनुरहं मातहतो वाणिज्यकारकैः। हा ! अकार्यमिदं वृत्तं चण्डालैरपि वर्जितम् ॥ ५७८ ॥ यद्यहं खण्डशः कृत्वा देहं वह्नौ दहाम्यहो।। तथाप्यमुष्य पापस्य पारं गच्छामि न कचित् ॥ ५७९ ॥ अदृष्टव्येष्वहं नूनमद्रष्टव्यशिरोमणिः। अग्राह्यनामकेभ्योऽपि प्रथमः पृथिवीतले ॥ ५८० ।। त्वद्भवनं प्रविष्टोऽहं निषिद्धः शकुनैनहि ।। अथवा तेऽपि भाव्यर्थ विहन्तुं शक्नुवन्ति न ॥ ५८१ ॥ पातकं क्षालयिष्यामि तदहं वह्निसाधनात् । । अत्युग्रकृतपापस्य नाऽन्या काचिद् गतिर्मम ॥ ५८२ ॥ अथैनां स नमस्कृत्य गत्वा निजकुटी प्रगे। ..