________________
सप्तमः सर्गः ।
प्रियेsमुं पश्य को न्वेष इति व्याकुरु सवरम् ? | साsप्यूचे देव ! नैवाऽमुं जानेऽहं कोऽयमित्यपि ॥ ५५७॥ आज्ञाऽत्र राजपादानां यदि जानामि किञ्चन । उवाच भूपतिर्भद्रे ! परिणीतः पतिस्तव ।। ५५८ ॥ निशम्येति च सा दध्यौ परिणीतः पतिश्च यः । तं न वेद्मि महाभाग ! धिग् मां कामवशंवदाम् ।। ५५९ ।। अनेन भूभुजा शीलं मामकीनं विखण्डितम् । तदेनं खण्डयिष्यामि कृते प्रतिकृतिः शुभा ॥ ५६० ॥ अवहित्थमथाssहत्य दिनं निर्गम्य दुःखिता । निशायां भूभुजं सुप्तं निजघान घनेर्ष्यया ॥ ५६१ ॥ इतच यामिकानां सा वञ्चयित्वा दृशो निशि । स्वकीयाssवासमायासीदपश्यच्च निजं प्रियम् ॥ ५६२ ॥ अङ्गुष्ठमोटनाच्चक्रे निद्राच्छेदममुष्य सा । केयं देवीति निर्ध्यायन्नुपविष्टो द्विजोऽभवत् ॥ ५६३ ॥ प्राणप्रिय ! प्रिया तेऽस्मि सावित्रीति विचिन्तय । एतावन्ति दिनान्यस्थामपश्यन्ती छलं कचित् ॥ ५६४ ॥ इदानीं तु छलं प्राप्य समागां तव संनिधौ । त्वत्पादौ शरणं मे स्तां गुरुः स्त्रीणां पतिर्यतः ॥ ५६५ ॥ अकस्माद्दीर्घपृष्ठेन पृष्ठे दष्टोऽथ स द्विजः ।
भीतैरिव विषावेगात् प्राणैश्च मुमुचे क्षणात् ॥ ५६६ ॥ गतप्राणं प्रियं प्रेक्ष्य विज्ञातनिजचेष्टिता | तस्यामेव निशीथिन्यां चलिता पश्चिमां प्रति ॥ ५६७ ॥ कतिभिर्दिवसैः प्राप नगरं पाटलाभिधम् । देवतामन्दिरं चैकं निरैक्षिष्ट मनोहरम् ।। ५६८ ॥
२४५
इतश्चाऽगात्कामदंष्ट्रा वेश्या वैशिकमन्दिरं । विलोललोचनामेनां विलोक्य ध्यातवत्यसौ ।। ५६९ ॥
१ पतिरेव गुरुः स्त्रियामित्यपि ।