________________
२४४
मल्लिनाथमहाकाव्येलोकद्वयविघातिन्यो जायन्तेऽनर्थवीथयः ॥ ५४३ ॥ एतेषामबलामूलं शूलं नितिसंपदः । पश्य धर्मधरो राजा स्त्रियः पञ्चत्वमासदत् ॥ ५४४ ॥ तथाह्यत्रैव स क्षेत्रे नगरे पुण्डवर्द्धने । राजा धर्मधरो नाम दुर्द्धरो वैरिभूभुजाम् ॥ ५४५ ॥ तत्रैव नगरेऽस्ति स्म ब्राह्मणो गोधनाभिधः । सावित्री प्रेयसी तस्य सावित्री ब्रह्मणो यथा ॥ ५४६ ॥ साऽन्यदा भूभुजा दृष्टा निःसमानवपुलता। हठादन्तः पुरे क्षिप्ता कामिनां का विवेकता ? ॥ ५४७ ॥ गृहीतां गृहिणीं ज्ञात्वा ब्राह्मणो वेदपारगः । मुष्टो मुष्ट इति चिरं व्याजहार घृणाकरम् ॥ ५४८॥ प्रिये ! प्राणप्रिये ! हा! हा! स्मेरपङ्केरुहानने !। म्रियेऽहं त्वां विना कस्माद् गताऽसि नृपवेश्मनि ॥५४९॥ त्वां विना दिवसा जाता दीर्घा मासोपमा मम । सर्वगां त्वां निरीक्षेऽहं विष्णुमूर्तिमिवाऽपराम् ॥ ५५० ॥ स्वाहा स्वधा कथङ्कारं करिष्ये त्वां विना प्रिये !। धर्मक्रियाणां मूलं हि गृहिण्यो गृहमधिनाम् ॥ ५५१ ॥ विलपन्निति षट्कर्मा भ्राम्यन् शून्यमनास्ततः । जगौ पश्चपदीं तस्याः प्रेमपादपसारिणीम् ।। ५५२ ॥ इतश्च तनयस्तस्य पञ्चवर्षप्रमाणभृत् । वाणिज्यकारकैरात्तो ही दुष्कर्मविजृम्भितम् ॥ ५५३ ।। कालक्रमेण संपन्ना तस्य तद्नेयजीविका । व्यतिक्रान्ते हि सप्ताहे दुःखं विस्मरति स्फुटम् ॥ ५५४ ॥ सावित्र्या सह भूपालो बुभुजे विषयान् सदा । साऽपि प्रेयःसुतस्नेहगेहादि व्यस्मरत्ततः ।। ५५५ ॥ अन्यदा ब्राह्मणो राजसौधाग्रे मधुरस्वरम् । तस्याः पञ्चपदीं गायन् ददृशे जगतीभुजा ॥ ५५६ ॥