________________
सप्तमः सर्गः।
२४३ शृङ्गाररसवापीभिर्वनिताभिर्दिवानिशम् । .. साकं चिक्रीड राज्यस्य चिन्ता नैव चकार सः ५३०॥ कदाचिच्चषकैमैरश्चितैः स्मेरपङ्कजैः। रामाभिः सह मैरेयं पिबति स्म सविस्मयम् ॥५३१॥ कदाचिदुद्यानगतः पुष्पावचयमुच्चकैः । योषिद्भिः सह कुर्वाणो वसन्ते खेलति स्म सः ॥ ५३२ ॥ वर्षासु कृतहर्षासु सौधोत्सङ्गे नराधिपः। मेघरागं स रामाभिरगायत्तुम्बुरूपमः ॥ ५३३ ॥.. कदाचित् क्रीडावापिषु शृङ्गीभिर्लोललोचनाः । असिश्चन् कामतप्ताङ्गीः स करीव करेणुकाः ॥ ५३४ ॥ एवं विषयसेवां स वितन्वानो दिवानिशम् । . दिवसान् गमयामास हर्षोत्कर्षमयानिव ॥ ५३५ ॥ अन्येद्युमन्त्रिणो भूपमुपरुध्य महाग्रहात् । एवं विज्ञपयामासुम॒द्वीकारम्यया गिरा ॥ ५३६ ॥ खमदृष्टं यथा पुंसः क्षणमात्रं सुखायते । प्रबुद्धस्य न तत् किञ्चिदेवं विषयजं सुखम् ।। ५३७ ॥ शब्दादिविषयाऽऽसक्ता धर्ममार्गपराङ्मुखाः। . अजरामरवद् मूढाश्चेष्टन्ते नष्टचेतनाः ॥ ५३८ ॥ विषयेषु निषीदन्तो न जानन्ति हिताऽहितम् ।। शृण्वन्ति न हितं वाक्यमेडमूका इवानिशम् ॥ ५३९ ॥ आदौ हृद्यरसाऽऽस्वादाः पर्यन्ते परितापिनः । . विषया विषवत् त्याज्याः पुंसा स्वहितमिच्छता ॥५४०॥ एकवारं विषं हन्ति भुक्तमेव न चिन्तितम् । .. विषयाश्चिन्तनादेव बहुधा च विनाशकाः ॥ ५४१ ॥ प्राप्ता अपि नरैः कामा दुःखं ददति देहिनाम् । क्षणात्तुष्टाः क्षणाद् रुष्टा गन्धर्वनगरोपमाः ॥ ५४२ ॥ विषयेषु प्रसक्तानां कन्दज्ञाविधायिनाम् । . ,