________________
मल्लिनाथमहाकाव्ये
मुक्त्वाऽस्ति नियमः साधुपादान्ते विहितो भृशम् ।।५१६ तच्छ्रुत्वा विस्मितो राजा माह धन्याविमौ नरौ । ययोर्नियम ईदृक्षो लोभाब्धेः कुम्भसंभवः ||५१७॥ तावन्मात्रं वरं स्वर्ण गृहीत्वोभौ पुरस्थितौ । पालयामासतुः श्राद्धधर्म शुद्धं यथाविधि ।। ५१८ ॥ अस्माकं मागधे देशे बिहारं कुर्व्वतां सताम् । गृहीतारौ मुनीन्द्रत्वं यातारौ च परं पदम् ।। ५१९ ॥ इत्याकतो वाक्यमभाषिष्ट क्षमापतिः
1
धन्य प्रभोः पार्श्वे गृहीतारौ महाव्रतम् ||५२०॥ एकं महाव्रतं तीर्थनाथादधिगतं परम् । कामधेनुपयःसिक्तकल्पद्रोः साम्यमञ्चति ।। ५२१ ॥ स्वामिन् ! पञ्चाणुव्रतानि श्रुतान्येकाग्रचेतसा । गुणत्रतत्रयीं श्रोतुमुत्कस्तिष्ठामि साम्प्रतम् ।। ५२२ ॥ तत्राद्यं दितं भोगोपभोगाख्यं द्वितीयकम् । ततश्वानर्थदण्डाख्यं शृणु कुम्भमहीपते ! ।। ५२३ ॥ कर्मणा गन्धेनेव सूक्ष्मीकृत्य प्रवेशितैः । इदं व्याप्तं जगज्जीवैर्वासैरिव समुद्रक: ।। ५२४ || स्थावरजङ्गमभेदा बादरा अपि जन्तवः । सन्ति तिर्यगधचोर्ध्वं तेषां व्यापत्तिभीरुणा ।। ५२५ ।। आदाय दिखतं सम्यक् पालनीयं प्रयत्नतः । अयतोऽयं यतः प्राणी तप्ताऽयोगोलसंनिभः ||५२६ ॥ नियन्त्रिते हि देहे वे गमनं प्रति देहिना । अभयं सर्वसत्त्वेभ्यो दत्तं पुण्यफलप्रदम् ।। ५२७ ॥ दिग्वतग्रहणात् प्राणी प्रेत्यामुत्र श्रियः पदम् । संपद्यतेतरां मित्रानन्द ऐरवते यथा ।। ५२८ ।। तथाहि पुष्करद्वीपे क्षेत्रे ऐरावताभिधे । पुरं भोगपुरं तत्र मित्रानन्दक्षितीश्वरः ।। ५२९ ।।
२४२