________________
सप्तमः सर्गः । सुधीरिदानीमापन्नद्वादशश्रावकत्रतौ । भोगदत्तसुदत्ताख्यौ भद्रकौ भद्रकोविदौ ।। ५०४ ॥ मुने! युक्तं ततः कर्तुं साधु साधर्मिकार्हणम् । विद्यया वित्तदानैर्वा यतो राद्धान्तगीरिति ।। ५०५ ॥ अन्योन्य देशजन्मानस्त्वन्यान्याहारवर्द्धिताः । जिनशासनसंपन्नाः सर्वे ते बान्धवा मताः ॥ ५०६ ॥ ततः कुष्टरुजाहन्तु वलयं सन्महौषधेः । अर्पयामास ताभ्यां स सत्ये मुह्यन्ति नोत्तमाः ||५०७ः धन्यौ स्तः कृतपुण्यौ स्तः सुलब्धजन्मजीवितौ । यदयं तीर्थकृद्धर्मः संप्राप्तो दिव्यरत्नवत् ।। ५०८ ॥ तौ प्रशस्य मुनिं नत्वा विद्युन्माली तिरोदधे । तावप्येनं नमस्कृत्येयतुः पुरं कुशस्थलम् ।। ५०९ ॥ तत्रत्यभूमिनाथस्य नरदेवस्य संज्ञिनः । पुत्रः परन्तपो नाम गलकुष्टरुजान्वितः ।। ५१० ॥ यः कश्चिदेनमुल्लाघं विदधाति कथंचन । स स्वर्णलक्षं गृह्णातु घोषयामासिवानिति ।। ५११ ॥ इमाम घोषणां श्रुत्वा डिण्डिमध्वानपूर्व्वकम् । धारयामासतुर्वाद्यमानं पटहमुद्भटम् ।। ५१२ | गत्वोपभूपमालोक्य कुमारं वेदनातुरम् । विनष्टनासिकं कुष्टरोगस्यातिभिरादिव || ५१३ ॥ (त्रिभिर्विशेषकम् )
सप्ताहात् कामसंकाशः कुमारो रूपसंपदा । क्रियते स्म ततस्ताभ्यां वैद्याभ्यामिव नाकिनः ॥५१४ ॥ अथ भूमीपतिस्तुष्टोऽवादीद् विकसिताननः । इदं राज्यमियं लक्ष्मीर्युवयोरिति गृह्यताम् ।। ५१५ ॥ हेम्नस्त्रिंशत्सहस्रेभ्यः परं भूमिपते ! हि नौ ।
१ सिद्धान्त इत्यपि ।
३१
२४१