________________
मल्लिनाथमहाकाव्ये
|
मुनिर्ध्यानं विमुच्याथ दत्त्वा धर्माशिषं तयोः । अभाषिष्टेति लोभान्धौ विहतौ स्थाश्विरं क्षितौ ॥ ४९१ ॥ योगिनस्तुम्बके प्राप्य पद्रदेव्याः प्रभावतः । लब्धायुष्क पुनर्ध्यातमरणावत्र पर्वते ।। ४९२ ।। लोभक्षोभ महाम्भोधेर्भ्रमकल्लोलमालिनः । इदं फेनायितं भद्रौ ! जानीतां धीविमर्शनात् ॥ ४९३ ॥ जनाः पीतमहामोहकनकाः कनकाशया । लभन्ते प्राकृताः प्रायः स्वर्ण प्राकृतभाषया ॥ ४९४ ॥ तृष्णा खानिरगाधेयं दुष्पूरा केन पूर्यते ? । या महद्भिरपि क्षिप्तैर्भूयो भूयो विवर्धते ।। ४९५ ।। च्युता दन्ताः सिताः केशा वाग्विरोधः पदे पदे । पातसाममुं देहं तृष्णा साध्वी न शाम्यति ।। ४९६ ॥ प्रभूतैरपि संप्राप्तैरर्थैस्तृष्णा न शाम्यति । . हविषा कृष्णवमेव भूयो भूयः प्रवर्धते ।। ४९७ । पादसंवाहनादीनि वेश्यानामपि कुर्वते । अवन्द्यमपि वन्दन्ते उच्छिष्टमपि भुञ्जते ।। ४९८ ॥ अकृत्यमपि कुर्वन्ति कृत्यमपि त्यजन्त्यलम् । . लोभाभिभूता मनुजाः किं किं नाम न कुर्वते ? ।।४९९ ॥ परिग्रहस्य प्रमितिं कुर्वतां लोभशान्तये । सेतुबन्धमवापार महामोहमहोदधेः ॥ ५०० ॥ अथ तौ द्वादशश्राद्धव्रतान्यप्यविशेषतः । त्रिंशत्कनकसहस्राश्चक्रतुः प्रमितित्रते ।। ५०१ । इतो भ्रातृसुतः साधोर्विद्युन्मालीति खेचरः । नमसा विद्यया प्राप वन्दितुं तं महामुनिम् ।। ५०२ ॥ नवा मुनिमिमौ दृष्ट्वा पृच्छति स्म नभश्वरः । काविमौ भद्राकारौ त्वन्मुखेक्षणतत्परौ ! ॥ ५०३ ||
$
२४०
"