________________
--सप्तमः सर्गः।
२३९ पद्रदेवि ! परं तुम्बं भूमीमध्यनिवेशितम् । आनीयार्पय नौ मुश्च पल्लिदेशस्य दूरतः ॥ ४७८ ॥ तत्तया विहिते देव्या चलितो मगधानभि । प्रापतुः कुशस्थलाख्यं पुरं प्रवरमंदिरम् ॥ ४७९ ॥ तत्र सूत्रभृतः कुट्यां स्थित्वा मुक्त्वा च तुम्बकम् । :रक्षाकृते निवेश्याऽमुं भोगदत्ता बहियेयौ ॥ ४८० ॥ सुदत्तेऽप्यथ निद्राणे गलितालाबुकच्छटा । तया सूत्रभृतो वंशी संतप्ता हेममय्यभूत् ॥ ७८१ ॥ तं वीक्ष्य सूत्रभृत्तुष्टो गृहीत्वा तुम्बकं करे । विमुच्याऽनलतोऽधाक्षीत्कुटीं पूत्कारपूर्वकम् ॥४८२॥ निद्रायमाणं धृत्वाऽथ सुदत्तं करकैरवे । बहिचिक्षेप वेगेन तन्वन् मायादयोदयम् ।। ४८३ ॥ आखुनाऽलाबुकगुणश्चिच्छेदे जीर्णगेहगः । रसश्च पतितो भूमौ निष्फलत्वमजायत ॥ ४८४ ॥
यत:येऽर्थाः विश्वस्तघातेन येऽर्था मित्रवधादपि । न तेऽर्थाः सुचिरं सन्ति वह्नयालीढा गृहा इव ॥४८५॥ इतश्चेतो भोगदत्तो दग्धां सूत्रभृतः कुटीम् । दृष्ट्वा पप्रच्छ सुहृदं तुम्बकं तव संनिधौ ? ॥४८६ ॥ मित्रोकः संस्थितं तुम्बं भस्मराशिरजायत । अद्यापि भाग्यलेशोऽपि नावयोः क्रियतां कथम् ? ४८७ अथो तो निर्गतौ तस्मात् प्राप्य वैभारपर्वतम् । स्मृतेष्टदेवतौ यावद् झम्पां दातुं समुद्यतौ ॥ ४८८ ॥ तावन्महीभृतः शृङ्गे कायोत्सर्गस्थितो मुनिः। उभाभ्यां समतां तन्वन् ददृशेऽसौ दृशोः पुरः।। ४८९॥ ततो मृत्युमतिं काश्चिच्छिथिलीकृत्य तावुभौ । आगत्य प्रणिपत्यर्षि ववन्दाते शुभाशयौ ।। ४९० ॥