________________
२३८
मल्लिनाथमहाकाव्येतदा प्रसारितदृशोतं वातेन कज्जलम् ॥ ४६४ ॥ ध्यात्वेति धरिणीपीठे निक्षिप्यालाबु संभृतम्। . चेलतुः सत्वरं भीतौ वीक्षमाणौ दिगन्तरान् ॥४६५।। इतश्च नाहलैर्बद्ध्वा गृहीत्वाऽलाबु चापरम् ।। कथश्चिद् विमुमुचाते स्मृताभीप्सितदैवतौ ॥४६६।। यद्ययं रसः संप्राप्तस्तथापि विधिवल्गितात् । प्रनष्टः किमभाग्यानां करस्थमपि याति न ?॥४६७।। उपाया बहवोऽस्माभिर्विहिता दुष्करा अपि । परं भाग्येतरं याति दूरतः पुरतः स्थितम् ॥४६८॥ ध्यात्वेति पर्यटन्तौ च धावित्वा नाहलैः पुनः । धृत्वा धृत्वा पद्रदेव्या निक्षिप्तौ गर्भवेश्मनि ॥४६९।। ऊचतुर्यामिकानावां कथंकारं धृतौ ननु । गृहीतरससर्वस्वौ गृहीतौषधसंचयौ ॥ ४७० ।। उचिरे यामिका भद्रौ ! योगिना नाहलेशितुः । दत्त्वा हेम्नः सहस्रं च धारितौ मारणेच्छया ॥४७१॥ कपाटच्छन्नगर्भीकोवासिनौ गतमानसौ। श्रावं श्रावं गिरो जातौ किंकर्तव्यपरायणौ ॥४७२।। भोगदत्तेन पाणिभ्यामादायाश्मानमुद्भटम् । अभि भट्टारिकां भक्तुं डुढौके निर्भयत्वतः ॥४७३॥ रे चौरग्रामवास्तव्ये ! पद्ररक्षाभिधायिनि!। ..... नेयं भवसि निग्राह्ये ! ततः प्रोवाच देवता ॥ ४७४ ।। निरागसं कथं भक्तुमुद्यतोऽसि महामते । सोप्यूचेत्र समाचारो यद्वधो हि निरागसाम् ॥४७५॥ आवाभ्यां हन्त ! पान्थाभ्यां किमागो विहितं कचित् । येन क्षिप्तौ तवागारद्वारि विन्यस्तयामिके ! ॥४७६॥ यद् यूयं भणिताऽशेषं तत्कुर्वे पितृमातृवत् ।। सत्वेन विहिता अर्थाः संपद्यन्ते क्षणादपि ॥४७७॥