________________
२५६
मल्लिनाथमहाकाव्ये
विदधे नियमस्तस्य भङ्गः किं श्रेयसे खलु ? ||६९९ ॥ शूरः स एव यः संख्ये भिनत्तीभरदद्वयम् । वादी स एव यो राजसभायां युक्तियुक्तगीः ॥७०० || गुरु: स एव यस्तचं शास्तोपासकपर्षदि । भव्यः स एव यः सम्यक् परिपालयति व्रतम् ।। ७०१ ॥ एतयोगिरमाकर्ण्य ततस्तस्वार्थसाधिकाम् । अथान्ये तस्करास्तद्वदन्योन्यस्य ददुस्तराम् ||७०२ || ततो विषोत्थकीलाभिः कल्पकालानलैरिव । तेषामायुर्द्वमो देहे सापायं हन्त जीवितम् ||७०३ || एतान् पञ्चत्वमापन्नान्वीक्ष्य तौ हृदि बभ्रतुः । गुरुणा तदाssवयोर्दत्तं हि जीवितम् ||७०४ || तेषां गुरूणां सातत्यं परोपकृतिकारिणाम् । भवावो भुवि जीवन्तावनृणत्वपरौ कथम् ? ।। ७०५ ।। तेषामेत्र गुरूणां तौ पार्श्वे जगृहतुव्रतम् । जग्मतुरच्युतं कल्पं तस्मान्निर्वाणमेध्यतः ।। ७०६ ।। आकर्ण्यतां सकर्णेन वर्ण्यमानं मितैः पदैः । अनर्थदण्डविरतिस्तातयीकी गुणव्रतम् || ७०७ ॥ आर्तरौद्रे अपध्याने विना स्वार्थ परस्य च । पापोपदेशः सोऽनर्थदण्ड इत्यभिधीयते ।। ७०८ ॥ येऽनर्थदण्डमीदृक्षं कुर्वते क्रूरचेष्टिताः । ते दुःखभागिनो लोके लोभनन्यादिको यथा ॥ ७०९ ॥ तथाहि समभूत् ख्यातं पुरं भोगपुराभिधम् । ताराचन्द्राभिधस्तत्र श्रेष्ठी श्रेष्ठगुणाकरः ।। ७१० ॥ संपूर्ण सर्वसामन्याः प्रकृष्टीकृतनाविकः । गृहीत भूरिभाण्डौघः सुभटैरुद्भटैः समम् ।। ७११ ।। आशुगो वायुवत्पोतो लङ्घयन्मकराकरम् । रखमेखलनामानं महाद्वीपमुपेयिवान् ।। ७१२ ॥