________________
प्रथमः सर्गः ।
पद्मिनीमिव मातङ्गः करेणाभ्यासवर्त्तिनीम् । अपाहार्षीदयं पापः पूर्ववैरस्मृतेरिव ॥ ७२ ॥ ( युग्मम् ) अभ्यर्थिता ततोऽत्यन्तं न मन्ये तद्वचो यदा । तदाऽनेनातिपापेन प्रापिताऽस्मीदृशीं दशाम् ॥ ७३ ॥ ततो रोदितुमारब्धा विरसैः करुणस्वरैः । विधुरे रोदनादन्यन्न भीरूणां बलं किल ॥ ७४ ॥ स्वयमेव विजानासि परन्तप । ततः परम् । निजेन तु चरित्रेण पवित्रय गम श्रुती ॥ ७५ ॥ अभ्यधादथ रत्नेन्दुः स्मितशुभ्ररदद्युतिः । अहं चन्द्रपुरे रत्नचन्द्रस्यास्मि परिग्रहे || ७६ ॥ कल्याणि ! त्वां तदादेशादायातस्त्रातुमातुराम् । एतस्य शासने शक्तिस्तस्यैवेयं प्रगल्भते ॥ ७७ ॥ तया विशिष्टचेष्टाभिर्लक्षणैरपि लक्षितः । रत्नचन्द्रः स एवायमिति स्वं गोपयन्नपि ॥ ७८ ॥ भवेदन्यस्य कस्येदं वीरव्रतमनुद्धतम् । यतो मां श्रातवानस्माद्योगिनो भोगिनो यथा ॥ ७९ ॥ ध्यात्वेत्युवाच सा रत्नचन्द्रमुद्वीक्ष्य विस्मिता । गतोsस्त्यानेतुमेधांसि वीरशिष्योऽस्य योगिनः ||८०|| अत्यर्थमसमर्थः संश्छलेन च बलेन सः । किञ्चिदत्याहितं कुर्यात्तदपक्रमणं कुरु ॥ ८१ ॥ युक्तियुक्तमिति प्रोक्तस्तयाऽऽतङ्केचित्तया । प्रेम स्थैमान मानेतुं मेने तस्या वचस्ततः ॥ ८२॥ शक्त्येवासक्तया साकं तथा क्षितिपतेः सुतः । प्रचचालाचलं प्रीत इतश्चास्तमगाद्रविः ॥ ८३ ॥ अञ्जनारिवोद्भूतः पातालविवरादिव । सूचीभेद्यस्तमस्तोमः प्रससार रसां प्रति ॥ ८४ ॥