________________
मल्लिनाथमहाकाव्ये
विक्रमैककथाव्यासश्चन्द्रहासो ममोज्ज्वलः ।
सकल्मषाणां तद्वाचामाचारं शोधयिष्यति ।। ५९ ।। इत्युक्तवति सत्यस्मिन् रत्नचन्द्रोऽवदत्तथा । मुश्च घातं तथा चक्रे योगिनाऽन्योऽप्यवञ्चयत् ।। ६० ।। कापालिकप्रहारेऽथ वितथे रत्नचन्द्रमाः । तदाषुः कमलं खड़गधारांशुभिरमीलयत् ॥ ६१ ॥ विच्छिद्य बन्धसम्बन्धं प्रेमबन्धं प्रपञ्चयन् । उवाच कन्यका मेनां कुतस्त्वं कास्ययं च कः ? ॥ ६२ ॥ तद्वीक्ष्य जातमन्दाक्षा पद्माक्षी साऽब्रवीदिति । समस्ति नगरी चम्पा गतकम्पा रिपुव्रजात् ॥ ६३ ॥ तस्यां भूमिपतिः शङ्खः शङ्खशुभ्रगुणोज्ज्वलः । पद्मेव पद्मखेति तस्य देवी पतिव्रता || ६४ ॥ तयोरभूवं तनया नाम्नाऽहं पद्मलोचना | उन्मथ्य बाल्यपाथोधं प्रपन्ना यौवनश्रियम् || ६५॥ मौहूर्त्तिकं शुभं नाम शुभाशुभविशारदम् । अन्येद्युः शङ्खभूपालः पर्यपृच्छत् कलानिधिम् ।। ६६॥ की नामास्याः पतिर्भावी रूपेण वयसा समः । खेचरः क्षितिचारी वा विचिन्त्य मम कथ्यताम् ||६७|| अभ्यधादथ दैवज्ञः सम्यग्ज्ञानबलेन सः । कुरुदेशे पुरे चन्द्राभिधाने सन्निकेतने ॥ ६८ ॥ वसुभूतेः सुतो रनचन्द्रस्तन्द्राविवर्जितः । परिणेष्यति ते पुत्र रोहिणीमिव चन्द्रमाः ॥ ६९ ॥ एवं शुभगिरः श्रुत्वा पित्रभूतिं पुरोधसम् । वरीतुं रत्नचन्द्रं स्म प्रहिणोति महीपतिः ॥ ७० ॥ इति कापालिकोऽप्येष जालकान्तरवर्त्तिनीम् । दृष्ट्वा मां कृत्रिमैः पुत्रैः क्रीडन्तीं ससखीजनाम् ॥ ७१ ॥