________________
मल्लिनाथमहाकाव्येअमूकघूकघूत्कारैरटन्ति मलिनाननाः ।। अस्तं गते रवौ नाथे दिशः शोकाकुला इव ॥ ८५।। विश्वमित्रे जगन्नेत्रे परलोकमुपेयुषि । तमोभिः पर्यपूर्य्यन्त लोचनानि तदाऽङ्गिनाम् ।। ८६ ।। कासारेभ्यः शशाङ्केन मुष्यन्ते कमलाकराः । जडात्मकानां गेहेषु न हि श्रीः स्थायिनी चिरम् ।।८७।। ततः कुमारो रत्नेन्दुर्दुस्तरे वंशगहरे । शाययित्वा विशालाक्षीं तस्य द्वारिस्थितः स्वयम् ।।८८॥ विभातायां विभावणं यावदाह्वयति प्रियाम् । ददौ प्रत्युत्तरं शैलः प्रतिशब्दैन सा पुनः ॥८९।। मदीया दयिता हन्त ! न वेद्मि च्छद्मसमना । हहा केनापि पापेनापहताऽपहृताऽथवा ? ॥९॥ कुतोऽश्वेनापहारो मे कुतश्वास्याः समागमः । अपहारः कथं चैष ऊर्द्धस्थादपि जाग्रतः ? ॥९१ । अथवा पुण्यनिर्णाशे जायते सर्वमीदृशम् । विधिव प्रगल्भोऽत्र कृते योगवियोगयोः ।। ९२ ।। एवं विमृश्य रत्नेन्दुश्चलितः काननोदरे । आराममिव धर्मद्रार्निधानमिव सम्पदाम् ।।९३ ।। पिधानमिव दुष्कर्मविरोचननिकेतने । ददर्श देवधामकं विस्मयोत्फुल्ललोचनः ॥ ९४ ।। मध्येचैत्यं प्रविष्टोऽसौ प्रमोदमिव देहिनाम् । निदध्यौ तीर्थकृद्धिम्बं दृग्मृगोपाशबन्धनम् ।।९५॥ प्रणत्य परया भक्त्या वीतरागं जगद्गुरुम् । अभ्यगान्मण्डपे चारुदन्तपश्चालिकादृते ।। ९६ ।। इतश्चागान्नरः कोऽपि जराजर्जर विग्रहः । कौपीनवसनः क्षामः क्लिन्नक्लिन्नो मलेन च ॥९७ ॥