________________
मल्लिनाथमहाकाव्ये
ततोऽहं काननेऽमुष्मिन् भ्राम्यन् योगीन्द्रमैक्षिषि ॥४३७॥ सेवितश्च मया पाणिपादसंवाहनादिभिः । रञ्जितश्च धनोपायमित्यभाषिष्ट दुष्टधीः || ४३८ ॥ अमुष्या रसमाकृष्य कृत्वा हेमशतान्यो ! | रसेन देखनेनैव दारिद्र्यस्य जलाञ्जलिम् ।। ४३९ ॥ ततोऽहं त्वामिवात्रैव क्षिप्तस्तेन दुरात्मना । मालाबु भृतं भद्र ! रसेनाऽऽनन्ददायिना || ४४० भी कृषिका कण्ठमानीतस्तेनाकृष्टो गुणोतेः । याचितं तुम्बकं भद्र ! मुग्धबुद्ध्या मयार्पितम् ||४४१ ॥ छित्त्वा छित्त्वा गुणं तेन पातितो दुष्टबुद्धिना । पतताऽत्र मया लब्धाऽधित्यका सुखवृत्तिका ||४४२ || अस्यां निवसतो भद्र ! दिनाष्टकमजायत । इतश्रागाद्भवानत्र मगोत्रज इवापरः ||४४३ || द्यूतं वेश्यानुरागश्च धातुवादश्च विभ्रमः । योगि सेवा सदा रुष्टे दैवेऽमी स्युः शरीरिणाम् ||४४४॥ बहवो द्रविणोपायाः पाशुपाल्यादिकाः क्षितौ । योगिसेवा कथं चक्रे मतिः कर्मानुसारिणी १ || ४४५॥ एकराशिगतत्वेन योगिनश्च यमस्य च । विभेमि स्वप्नमध्येऽपि किं पुना रूपदर्शनात् ||४४६ || | श्रुत्वेति भोगदत्तोऽथ स्थितो भीतस्तदन्तिके । मूकीभूत इवोड्डीनप्राणः प्राणभयं महत् ||४४७ | इतच योगिनाsप्यूचे वत्साऽलाबु रसेन मे । संपूर्णांकुरु वेगेन विघ्ननिघ्नः शुभक्षणः ॥ ४४८ ॥ नावद भोगदत्तोऽथ भाषितोऽपि मुहुर्मुहुः । शुक्रवत्पञ्जरान्तस्थो मार्जारस्य निरीक्षणात् ||४४९ || क्षणं छिवा विचेतको योग्यभूद् योग्यकर्मणि । एतौ तु निर्गमोपायं ध्यायन्तौ गर्भगाविव || ४५० ॥
२३६