________________
सप्तमः सर्गः ।
लक्ष्म्या मुक्तस्य पाथोधेरपेयं जलमप्यभूत् । शाकीफलानि स्वादूनि भवन्ति श्रीमतो गृहे ||४२४ ॥ गोपमुरूयोऽपि कृष्णोऽपि हलिनो बन्धुरप्यहो ! | लक्ष्म्या कक्षीकृतः शश्वद् भण्यते पुरुषोत्तमः || ४२५ || एवं विचिन्त्य नगराद् निर्ययौ देवतासखः । अरण्ये योगिनं कंचिद् वीक्षामास च विस्मितः || ४२६ || वितन्वता तदादेशं तन्वता शिष्यतां भृशम् । अरञ्जितेन योगीन्द्रो विनयात्किं न सिध्यति १ ॥ ४२७ ॥ हो ! नर ! कथं शश्वत्सेवसे मां कृतादर: ? । तद् ब्रूहि चिन्तितं चित्ते पूरये ते समीहितम् ||४२८|| योगीन्द्र ! द्रविणार्थ्यास्मि तदुपायं निवेदय । वित्तजातविहीनोऽपि नरो गौरिव गण्यते ॥ ४२९ ॥ वत्सात्र कूपिका कान्ता कोटीवेधरसाकुला । अस्यां प्रविश्य वेगेन तमाकृष निमेषतः ॥ ४३० ॥ यथा ते जायते स्वर्णसिद्धिश्चिन्तितपूरदा । अचिन्त्यो हि रसादीनां महिमा कल्पवृक्षवत् ||४३१|| ततश्च लघुखट्टायां निवेश्याऽमुं सतुम्बकम् । गुणैः प्रसृमरैः क्षिप्तः कूपिकायां खनाविव ||४३२॥ उपत्यकास्थितेनाऽथ कण्ठपीठागतासुना । कूपिका गतो यावत् तावद् दृष्टः स केनचित् ॥४३३॥ हो ! नर ! रसं कस्मादाक्रष्टुं त्वं समुद्यतः १ । तदवश्यं मृतिस्तेऽत्र न क्षेमो यमसंनिधौ ॥ ४३४ ॥ इत्याकर्ण्य वचस्तस्य भेरीभाङ्कारभासुरम् । ऊचे कस्त्वं कुतोऽप्यत्र संस्थितस्तन्निवेदय । ॥ ४३५॥ भ्रातरस्मि धनग्रामवासी व्यवहृतिप्रियः । सुदत्तनामतो दत्तद्रव्यः कौटुम्बिकजे ॥ ४३६ ॥ स ग्राम चौरवाटीभिर्भग्नः प्रज्वालितो भृशम्।.
२३५