________________
२३४
मल्लिनाथमहाकाव्येधन्यः सुदर्शनः श्रेष्ठी जिनदर्शनविश्रुतः ॥४१॥ । तावत्सर्वो जनो धीमांस्तावत्सर्वोऽपि पण्डितः । . तावच्छुचिः कृतज्ञश्च यावद् न स्वीकटाक्षितः ॥४१॥ विकारैर्मान्मथैः काम्यैर्यद्वनैरिव ताडितम् । न भिन्न रत्नवजात्यं शीलं तद् निर्दृतेः पदम् ॥४१२॥ अथ प्राकाशयद्विश्वनाथः पाथोदनिस्वनः । परिग्रहमिति माणुव्रतं पञ्चमं व्रतम् ॥४१३॥ पोतो यथातिसंपूर्णो मजत्येव महोदधौ । तथा परिमितिभ्रष्टः संसारे दुस्तरे नरः ॥४१४।। धनधान्यक्षेत्रवस्तुरजतस्य चतुष्पदाम् । सुवर्णकुप्यद्विपदां प्रमाणं पञ्चमं व्रतम् ॥४१५॥ सचित्ताचित्तयोर्येन यावती विरतिः कृता । तावती तेन पाल्यैव नोल्लङ्घया मूलमार्गवत् ॥४१६॥ परिग्रहमितिं चक्रुर्ये ज्ञातजिनशासनाः । ते स्युर्भोगपदं शश्वद् भोगदत्तसुदत्तवत् ॥ ४१७ ॥ समस्ति भारतेऽमुत्र पुरं रत्नाकराभिधम् । यद् वेष्टितमिवाम्भोधिवलयैः परिखामिषात् ॥४१८॥ सत्पभस्तत्र भूपालः सप्रतापः परन्तपः। तद्गुणैर्ग्रथिता कीर्तिपटी छादयते दिशः ॥४१९॥ तस्मिन्नेवास्ति वास्तव्यो भोगदत्ताभिधः सुधीः। इभ्यपुत्रः परं दैवाद् दारिद्यस्य निकेतनम् ॥४२०॥ लक्ष्मीः खलु सखी कीर्तेर्लक्ष्मीः कल्याणपारदः।। लक्ष्मीर्विपल्लतादात्रं लक्ष्मी रक्षणमङ्गलम् ॥४२१॥ जातिः कुलं विवेकोऽपि सर्वे रूपादयो गुणाः । एकयैव श्रिया हीनास्तृणायन्ते शरीरिणाम् ॥४२२।। धनुर्दण्डः सुवंशोऽपि सगुणः पर्ववानपि । सततं लक्षलाभाय यतते कोटिमानपि ॥४२३॥ .