________________
- सप्तमः सर्गः।
२३३ भृत्वा पक्षौ च नीरेण स्थित्वा तस्योपरि क्रुधा॥३९७॥ मोचयन्ती जलान्युच्चैः पक्षगाणि शनैः शनैः। विदधे पक्षपातं सा तालवृन्ताऽनिलायितम् ॥३९८॥ ..
(युग्मम् ) तपःक्षामो विवसनः कथं शीतं सहेद् मुनिः । तद्गात्रं कम्पितव्याजाच्छीतं दूरेऽकरोदिव ॥३९९॥ रे ! रे ! जीव ! कियन्मात्रं तव कष्टमुपस्थितम् । यत्सोढं नरके तस्य वर्णिकामात्रमीक्ष्यताम् ॥४०॥ पायितं त्रपु संतप्तं कुम्भीपाकेषु पाचितः। .... तारितः पूयसंपूर्णा वैतरिणी तरङ्गिणीम् ॥४०॥ . संछिन्नः कुन्तचक्रायैः परमाधार्मिकैः सुरैः। तत्कष्टं जीव ! हृदये.दधतः किमिदं तव ? ॥४०२॥ तवोपकृतिकारिण्याः कर्षयन्त्यास्तनूमिमाम् । एतस्या नालमीशोऽसि कर्तुं प्रत्युपकारिताम् ।।४०३॥ एवं भावयतस्तस्य सहमानस्य तां व्यथाम् । सूर्योदये वरज्ञानमुत्पेदे विश्वदीपकम् ॥४०४॥ अथ भक्त्या समाकृष्टा आगतास्त्रिदशास्तदा । .. केवलज्ञानमहिमां चक्रिरे सुमहैः सह ॥४०५॥ ततो देवकृते पद्मासने मुनिमतङ्गजः। उपाविक्षदथाऽऽनन्तुमापतन् पुरवासिनः ॥४०६॥ ततो देशनया तस्य प्रबुद्धा व्यन्तरामरी । . अन्येऽपि बहवो लोका भेजिरे धर्ममाईतम् ॥४०७|| अथो विहृत्य सुचिरं केवली प्रतिबोधकृत् । निर्वाणसंपदं भेजे सर्वक्लेशप्रणाशकम् ॥४०८॥ राजन् ! यथाऽमुना चक्रे गृहस्थत्वेऽपि सद्धिया। व्रतं वदारसंतोषं तथा कार्य नरैरपि ॥४०९॥ अथ प्रणम्य तीर्थेशं श्रीकुम्भोऽभिदधे नृपः ।